Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 74
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
येदंपूर्वाग॑न्रशना॒यमा॑ना प्र॒जाम॒स्यै द्रवि॑णं चे॒ह द॒त्त्वा। तांव॑ह॒न्त्वग॑त॒स्यानु॒ पन्थां॑ वि॒राडि॒यं सु॑प्र॒जा अत्य॑जैषीत् ॥
स्वर सहित पद पाठया । इ॒दम् । पूर्वा॑ । अग॑न् । र॒श॒ना॒ऽयमा॑ना । प्र॒ऽजाम् । अ॒स्यै । द्रवि॑णम् । च॒ । इ॒ह । द॒त्त्वा । ताम् । व॒ह॒न्तु॒ । अग॑तस्य । अनु॑ । पन्था॑म् । वि॒ऽराट् । इ॒यम् । सु॒ऽप्र॒जा: । अति॑ । अ॒जै॒षी॒त् ॥२.७४॥
स्वर रहित मन्त्र
येदंपूर्वागन्रशनायमाना प्रजामस्यै द्रविणं चेह दत्त्वा। तांवहन्त्वगतस्यानु पन्थां विराडियं सुप्रजा अत्यजैषीत् ॥
स्वर रहित पद पाठया । इदम् । पूर्वा । अगन् । रशनाऽयमाना । प्रऽजाम् । अस्यै । द्रविणम् । च । इह । दत्त्वा । ताम् । वहन्तु । अगतस्य । अनु । पन्थाम् । विऽराट् । इयम् । सुऽप्रजा: । अति । अजैषीत् ॥२.७४॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 74
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७४−(या) वधूः (इदम्) स्थानम् (पूर्वा)प्रथमा। मुख्या (अगन्) आगच्छतु (रशनायमाना) रशनां कटिबन्धनं करोतीति रशनायते।तत्करोति तदाचष्टे। वा० पा० ३।१।२६। रशना-णिच्, शानच्। कटिबन्धनं कुर्वाणा। सदापुरुषार्थयुक्ता (प्रजाम्) सन्तानसेवकादिजनताम् (अस्यै) वधूहिताय (द्रविणम्)धनम् (इह) गृहाश्रमे (दत्त्वा) (ताम्) वधूम् (वहन्तु) नयन्तु (अगतस्य)अप्राप्तस्य। अनागतस्य कालस्य (अनु) अनुसृत्य (पन्थाम्) पन्थानम् (विराट्)विविधैश्वर्यवती (इयम्) गुणवती (सुप्रजाः) जनी-विट्। सुजन्मा सती (अति)अत्यन्तम् (अजैषीत्) जयेत् ॥
इस भाष्य को एडिट करें