Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 68
    सूक्त - आत्मा देवता - विराट् पुरउष्णिक् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    कृ॒त्रिमः॒कण्ट॑कः श॒तद॒न्य ए॒षः। अपा॒स्याः केश्यं॒ मल॒मप॑ शीर्ष॒ण्यं लिखात् ॥

    स्वर सहित पद पाठ

    कृ॒त्रिम॑: । कण्ट॑क: । श॒तऽद॑न् । य: । ए॒ष: । अप॑ । अ॒स्या: । केश्य॑म् । मल॑म् । अप॑ । शी॒र्ष॒ण्य᳡म् । लि॒खा॒त् ॥२.६८॥


    स्वर रहित मन्त्र

    कृत्रिमःकण्टकः शतदन्य एषः। अपास्याः केश्यं मलमप शीर्षण्यं लिखात् ॥

    स्वर रहित पद पाठ

    कृत्रिम: । कण्टक: । शतऽदन् । य: । एष: । अप । अस्या: । केश्यम् । मलम् । अप । शीर्षण्यम् । लिखात् ॥२.६८॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 68

    टिप्पणीः - ६८−(कृत्रिमः) शिल्पिना कृतः (कण्टकः) कटि गतौ-ण्वुल् अर्शआद्यच्। कण्टकःकन्तपो वा कृन्ततेर्वा कण्टतेर्वा स्याद् गतिकर्मणः निरु० ६।३२। कण्टकयुक्तः कृन्तकः (शतदन्)छन्दसि च। पा० ५।४।१४२। दतृ इत्ययमादेशः। बहुदन्तोपेतः (यः) (एषः) (अस्याः)प्रजायाः (केश्यम्) केशे भवम् (मलम्) मालिन्यम् (शीर्षण्यम्) शिरसि भवम् (अपअप लिखात्) भृशं विलिख्य दूरीकुर्यात् ॥

    इस भाष्य को एडिट करें
    Top