Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 39
सूक्त - आत्मा
देवता - भुरिक् त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
आ रो॑हो॒रुमुप॑धत्स्व॒ हस्तं॒ परि॑ ष्वजस्व जा॒यांसु॑मन॒स्यमा॑नः। प्र॒जां कृ॑ण्वाथामि॒हमोद॑मानौ दी॒र्घं वा॒मायुः॑ सवि॒ता कृ॑णोतु ॥
स्वर सहित पद पाठआ । रो॒ह॒ । ऊ॒रुम् । उप॑ । ध॒त्स्व॒ । हस्त॑म् । परि॑ । स्व॒ज॒स्व॒ । जा॒याम् । सु॒ऽम॒न॒स्यमा॑न: । प्र॒ऽजाम् । कृ॒ण्वा॒था॒म् । इ॒ह । मोद॑मानौ । दी॒र्घम् । वा॒म् । आयु॑: । स॒वि॒ता । कृ॒णो॒तु॒ ॥२.३९॥
स्वर रहित मन्त्र
आ रोहोरुमुपधत्स्व हस्तं परि ष्वजस्व जायांसुमनस्यमानः। प्रजां कृण्वाथामिहमोदमानौ दीर्घं वामायुः सविता कृणोतु ॥
स्वर रहित पद पाठआ । रोह । ऊरुम् । उप । धत्स्व । हस्तम् । परि । स्वजस्व । जायाम् । सुऽमनस्यमान: । प्रऽजाम् । कृण्वाथाम् । इह । मोदमानौ । दीर्घम् । वाम् । आयु: । सविता । कृणोतु ॥२.३९॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 39
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३९−(आ रोह)आतिष्ठ (ऊरुम्) जङ्घाम् (उप धत्स्व) उपेत्य व्याप्य धारय (हस्तम्) (परि ष्वजस्व)आलिङ्ग (जायाम्) पत्नीम् (सुमनस्यमानः) प्रसन्नचित्तः (प्रजाम्) सन्तानम् (कृण्वाथाम्) जनयतम् (इह) गर्भाधानविधौ (मोदमानौ) हर्षन्तौ (दीर्घम्) (वाम्)युवयोः (आयुः) जीवनम् (सविता) सर्वोत्पादकः परमेश्वरः (कृणोतु) करोतु ॥
इस भाष्य को एडिट करें