Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 72
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
ज॑नि॒यन्ति॑ना॒वग्र॑वः पुत्रि॒यन्ति॑ सु॒दान॑वः। अरि॑ष्टासू सचेवहि बृह॒ते वाज॑सातये॥
स्वर सहित पद पाठज॒नि॒ऽयन्ति॑ । नौ॒ । अग्र॑व: । पु॒त्रि॒ऽयन्ति॑ । सु॒ऽदान॑व: । अरि॑ष्टासू॒ इत्यरि॑ष्टऽअसू । स॒चे॒व॒हि॒ । बृ॒ह॒ते । वाज॑ऽसातये ॥२.७२॥
स्वर रहित मन्त्र
जनियन्तिनावग्रवः पुत्रियन्ति सुदानवः। अरिष्टासू सचेवहि बृहते वाजसातये॥
स्वर रहित पद पाठजनिऽयन्ति । नौ । अग्रव: । पुत्रिऽयन्ति । सुऽदानव: । अरिष्टासू इत्यरिष्टऽअसू । सचेवहि । बृहते । वाजऽसातये ॥२.७२॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 72
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७२−(जनियन्ति) सुप आत्मनः क्यच्। पा० ३।१।८। जन-क्यच्।अपुत्रादीनामिति वक्तव्यम्। वा० पा० ७।४।३५। इति प्राप्तस्य ईत्वस्य छान्दसोह्रस्वः। जनीयन्ति जनान् भक्तजनान् इच्छन्ति (नौ) आवाभ्याम् (अग्रवः)रुशातिभ्यां क्रुन्। उ० ४।१०३। अग गतौ−क्रुन्। गन्तारः। उद्योगिनः (पुत्रियन्ति) पुत्र-क्यचि, ईत्वस्य छान्दसो ह्रस्वः। पुत्रीयन्ति। पुत्रान्इच्छन्ति (सुदानवः) सुदानिनः (अरिष्टासू) रिष हिंसायाम्-क्त। अहिंसितप्राणौ।महापुरुषार्थिनौ (सचेवहि) षच समवाये विधिलिङ्। नित्यसम्बन्धिनौ भवेम (बृहते)महते (वाजसातये) वाजानां विज्ञानबलान्नानां दानाय ॥
इस भाष्य को एडिट करें