Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 52
सूक्त - आत्मा
देवता - विराट् परोष्णिक्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
उ॑श॒तीः क॒न्यला॑इ॒माः पि॑तृलो॒कात्पतिं॑ य॒तीः। अव॑ दी॒क्षाम॑सृक्षत॒ स्वाहा॑ ॥
स्वर सहित पद पाठउ॒श॒ती: । क॒न्यला॑: । इ॒मा: । पि॒तृ॒ऽलो॒कात् । पति॑म् । य॒ती॒: । अव॑ । दी॒क्षाम् । अ॒सृ॒क्ष॒त॒ । स्वाहा॑ ॥२.५२॥
स्वर रहित मन्त्र
उशतीः कन्यलाइमाः पितृलोकात्पतिं यतीः। अव दीक्षामसृक्षत स्वाहा ॥
स्वर रहित पद पाठउशती: । कन्यला: । इमा: । पितृऽलोकात् । पतिम् । यती: । अव । दीक्षाम् । असृक्षत । स्वाहा ॥२.५२॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 52
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५२−(उशतीः) कामयमानाः (कन्यलाः) अ० ५।५।३। अघ्न्यादयश्च। उ०४।११२। कनी दीप्तिकान्तिगतिषु-यक्+ला आदाने-क, टाप्। शोभाग्रहीत्र्यः (इमाः)विदुष्यः (पितृलोकात्) पितृकुलात् (पतिम्) स्वस्वभर्तारम् (यतीः) गच्छन्त्यः (दीक्षाम्) दीक्ष मौण्ड्येज्योपनयननियमव्रतादेशेषु-अप्रत्ययः। नियमव्रतयोःशिक्षाम् (अव सृक्षत) अवसृजन्तु। ददतु (स्वाहा) अ० २।१६।१। सुवाण्या। वेदवाचा ॥
इस भाष्य को एडिट करें