Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 43
सूक्त - आत्मा
देवता - त्रिष्टुब्गर्भा पङ्क्ति
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
स्यो॒नाद्योने॒रधि॒ बुध्य॑मानौ हसामु॒दौ मह॑सा॒ मोद॑मानौ। सु॒गू सु॑पु॒त्रौसु॑गृ॒हौ त॑राथो जी॒वावु॒षसो॑ विभा॒तीः ॥
स्वर सहित पद पाठस्यो॒नात् । योने॑: । अधि॑ । बुध्य॑मानौ । ह॒सा॒मु॒दौ । मह॑सा । मोद॑मानौ । सु॒गू इति॑ सु॒ऽगू । सु॒ऽपु॒त्रौ । सु॒ऽगृ॒हौ । त॒रा॒थ॒: । जी॒वौ । उ॒षस॑: । वि॒ऽभा॒ती: ॥२.४३॥
स्वर रहित मन्त्र
स्योनाद्योनेरधि बुध्यमानौ हसामुदौ महसा मोदमानौ। सुगू सुपुत्रौसुगृहौ तराथो जीवावुषसो विभातीः ॥
स्वर रहित पद पाठस्योनात् । योने: । अधि । बुध्यमानौ । हसामुदौ । महसा । मोदमानौ । सुगू इति सुऽगू । सुऽपुत्रौ । सुऽगृहौ । तराथ: । जीवौ । उषस: । विऽभाती: ॥२.४३॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 43
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४३−(स्योनात्)सुखप्रदात् (योनेः) गृहात्-निघ० ३।४ (अधि) यथाविधि (बुध्यमानौ) जागरूकौ।अप्रमत्तौ (हसामुदौ) हास्येनामोदं कुर्वन्तौ (महसा) महता प्रेम्णा (मोदमानौ)हर्षन्तौ (सुगू) सु+गच्छतेर्डु, यद्वा। गोस्त्रियोरुपसर्जनस्य। पा० १।२।४८। इतिगोर्ह्रस्वः। शोभनचरित्रौ। उत्तमगोयुक्तौ (सुपुत्रौ) श्रेष्ठसन्तानौ (सुगृहौ)श्रेष्ठगृहसामग्रीयुक्तौ (तराथः) पारयतम् (जीवौ) प्राणान् धारयन्तौ (उषसः)बहुप्रभातवेलाः (विभातीः) विविधप्रकाशमानाः ॥
इस भाष्य को एडिट करें