Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 7
    सूक्त - आत्मा देवता - अनुष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    या ओष॑धयो॒ यान॒द्यो॒ यानि॒ क्षेत्रा॑णि॒ या वना॑। तास्त्वा॑ वधु प्र॒जाव॑तीं॒ पत्ये॑रक्षन्तु र॒क्षसः॑ ॥

    स्वर सहित पद पाठ

    या: । ओष॑धय: । या: । न॒द्य᳡: । यानि॑ । क्षेत्रा॑णि । या । वना॑ । ता: । त्वा॒ । व॒धु॒ । प्र॒जाऽव॑तीम् । पत्ये॑ । र॒क्ष॒न्तु॒ । र॒क्षस॑: ॥२.७॥


    स्वर रहित मन्त्र

    या ओषधयो यानद्यो यानि क्षेत्राणि या वना। तास्त्वा वधु प्रजावतीं पत्येरक्षन्तु रक्षसः ॥

    स्वर रहित पद पाठ

    या: । ओषधय: । या: । नद्य: । यानि । क्षेत्राणि । या । वना । ता: । त्वा । वधु । प्रजाऽवतीम् । पत्ये । रक्षन्तु । रक्षस: ॥२.७॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 7

    टिप्पणीः - ७−(याः) (ओषधयः) अन्नसोमलतादयः (याः) (नद्यः) (यानि) (क्षेत्राणि) अन्नोत्पत्तिस्थानानि (या) यानि (वना) वनानि।वनोपवनवाटिकादीनि (ताः) पूर्वोक्ता ओषध्यादयः (त्वा) (वधु) हे पत्नि (प्रजावतीम्) उत्तमसन्तानयुक्ताम् (पत्ये) स्वामिहिताय (रक्षन्तु) पालयन्तु (रक्षसः) रक्षणीयं यस्मात् तस्माद् राक्षसात् विघ्नात् ॥

    इस भाष्य को एडिट करें
    Top