Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 22
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
यं बल्ब॑जं॒न्यस्य॑थ॒ चर्म॑ चोपस्तृणी॒थन॑। तदा रो॑हतु सुप्र॒जा या क॒न्या वि॒न्दते॒पति॑म् ॥
स्वर सहित पद पाठयम् । बल्ब॑जम् । नि॒ऽअस्य॑थ । चर्म॑ । च॒ । उ॒प॒ऽस्तृ॒णी॒थन॑ । तत् । आ । रो॒ह॒तु॒ । सु॒ऽप्र॒जा: । या । क॒न्या᳡ । वि॒न्दते॑ । पति॑म् ॥२.२२॥
स्वर रहित मन्त्र
यं बल्बजंन्यस्यथ चर्म चोपस्तृणीथन। तदा रोहतु सुप्रजा या कन्या विन्दतेपतिम् ॥
स्वर रहित पद पाठयम् । बल्बजम् । निऽअस्यथ । चर्म । च । उपऽस्तृणीथन । तत् । आ । रोहतु । सुऽप्रजा: । या । कन्या । विन्दते । पतिम् ॥२.२२॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 22
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २२−(यम्) (बल्बजम्) अशूप्रुषिलटि०। उ० १।१५१। बल संवरणेवेष्टने-क्वन्+जन-ड। बलते भुवं वेष्टयतीति बल्बः पर्वतस्तत्र जायते।तृणविशेषासनम्। मुञ्जभेदम्-यथा मनु० २।४३। (न्यस्यथ) निक्षिपथ (चर्म)सिंहमृगादिचर्म (च) (उपस्तृणीथन) आच्छादयथ (तत्) आसनम् (आ रोहतु) आतिष्ठतु (सुप्रजाः) जनी प्रादुर्भावे-विट्। सुजन्मा (या) (कन्या) कमनीया वधू (विन्दते)लभते (पतिम्) भर्तारम् ॥
इस भाष्य को एडिट करें