Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 37
सूक्त - आत्मा
देवता - भुरिक् त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
संपि॑तरा॒वृत्वि॑ये सृजेथां मा॒ता पि॒ता च॒ रेत॑सो भवाथः। मर्य॑ इव॒ योषा॒मधि॑रोहयैनां प्र॒जां कृ॑ण्वाथामि॒ह पु॑ष्यतं र॒यिम् ॥
स्वर सहित पद पाठसम् । पि॒त॒रौ॒ । ऋत्वि॑ये॒ इति॑ । सृ॒जे॒था॒म् । मा॒ता । पि॒ता । च॒ । रेत॑स: । भ॒वा॒थ॒: ।मर्य॑:ऽइव । योषा॑म् । अधि॑ । रो॒ह॒य॒ । ए॒ना॒म् प्र॒ऽजाम् । कृ॒ण्वा॒था॒म् । इ॒ह । पु॒ष्य॒त॒म् । र॒यिम् ॥२.३७॥
स्वर रहित मन्त्र
संपितरावृत्विये सृजेथां माता पिता च रेतसो भवाथः। मर्य इव योषामधिरोहयैनां प्रजां कृण्वाथामिह पुष्यतं रयिम् ॥
स्वर रहित पद पाठसम् । पितरौ । ऋत्विये इति । सृजेथाम् । माता । पिता । च । रेतस: । भवाथ: ।मर्य:ऽइव । योषाम् । अधि । रोहय । एनाम् प्रऽजाम् । कृण्वाथाम् । इह । पुष्यतम् । रयिम् ॥२.३७॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 37
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३७−(पितरौ) भाविनौ मातापितरौ (ऋत्विये) अ० १२।३।२९।छन्दसि घस्। पा० ५।१।१०६। ऋतु-घस्। द्विवचनान्तः प्रयोगोऽयं नपुंसके। ऋतुंगर्भाधानयोग्यकालं प्राप्ते द्वे द्रव्ये यथा (संसृजेथाम्) युवां संयुक्तौ भवतम् (माता) (पिता) (च) (रेतसः) वीर्यात्। वीर्यरजःसंयोगात् (भवाथः) युवां भवतम् (मर्यः इव) नरो यथा (योषाम्) सेवनीयांपत्नीम् (अधि रोहय) उपरि गच्छ (एनाम्)गुणवतीम् (प्रजाम्) सन्तानम् (कृण्वाथाम्) जनयतम् (इह) गृहाश्रमे (पुष्यतम्)वर्धयतम् (रयिम्) धनम् ॥
इस भाष्य को एडिट करें