Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 38
सूक्त - आत्मा
देवता - परानुष्टुप् त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
तां पू॑षंछि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं॑ मनु॒ष्या॒ वप॑न्ति। या न॑ ऊ॒रू उ॑श॒तीवि॒श्रया॑ति॒ यस्या॑मु॒शन्तः॑ प्र॒हरे॑म॒ शेपः॑ ॥
स्वर सहित पद पाठताम् । पूष॑न् । शि॒वऽत॑माम् । आ । ई॒र॒य॒स्व॒ । यस्या॑म् । बीज॑म् । म॒नु॒ष्या᳡: । वप॑न्ति । या । न॒: । ऊ॒रू इति॑ । उ॒श॒ति । वि॒ऽश्रया॑ति । यस्या॑म् । उ॒शन्त॑: । प्र॒ऽहरे॑म । शेप॑: ॥२.३८॥
स्वर रहित मन्त्र
तां पूषंछिवतमामेरयस्व यस्यां बीजं मनुष्या वपन्ति। या न ऊरू उशतीविश्रयाति यस्यामुशन्तः प्रहरेम शेपः ॥
स्वर रहित पद पाठताम् । पूषन् । शिवऽतमाम् । आ । ईरयस्व । यस्याम् । बीजम् । मनुष्या: । वपन्ति । या । न: । ऊरू इति । उशति । विऽश्रयाति । यस्याम् । उशन्त: । प्रऽहरेम । शेप: ॥२.३८॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 38
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३८−(ताम्) युवतीम् (पूषन्) हे पोषक पते (शिवतमाम्) अतिशयेनानन्दकरीम् (एरयस्व)प्रेरय (यस्याम्) पत्न्याम् (बीजम्) वीर्यम् (मनुष्याः) नराः (वपन्ति)निक्षिपन्ति (या) पत्नी (नः) अस्मान् (ऊरू) जङ्घाप्रदेशौ (उशती) कामयमाना (विश्रयाति) विविधं श्रयेत्। विस्तारयेत् (यस्याम्) (उशन्तः) तां कामयमानाः (प्रहरेम) प्रहृतं कुर्याम (शेपः) उपस्थेन्द्रियम् ॥
इस भाष्य को एडिट करें