Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 16
    सूक्त - आत्मा देवता - अनुष्टुप् छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    उद्व॑ ऊ॒र्मिःशम्या॑ ह॒न्त्वापो॒ योक्त्रा॑णि मुञ्चत। मादु॑ष्कृतौ॒व्येनसाव॒घ्न्यावशु॑न॒मार॑ताम् ॥

    स्वर सहित पद पाठ

    उत् । व॒: । ऊ॒र्मि: । शम्या॑: । ह॒न्तु॒ । आप॑: । योक्त्रा॑णि । मु॒ञ्च॒त॒ । मा । अदु॑:ऽकृतौ । विऽए॑नसौ । अ॒घ्न्यौ । अशु॑नम् । आ । अ॒र॒ता॒म् ॥१.१६॥


    स्वर रहित मन्त्र

    उद्व ऊर्मिःशम्या हन्त्वापो योक्त्राणि मुञ्चत। मादुष्कृतौव्येनसावघ्न्यावशुनमारताम् ॥

    स्वर रहित पद पाठ

    उत् । व: । ऊर्मि: । शम्या: । हन्तु । आप: । योक्त्राणि । मुञ्चत । मा । अदु:ऽकृतौ । विऽएनसौ । अघ्न्यौ । अशुनम् । आ । अरताम् ॥१.१६॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 16

    टिप्पणीः - १६−(उत्) उपरि (वः) युष्माकम् (ऊर्मिः) ऋ गतौ-मि प्रत्ययः। उत्साहरूपतरङ्गः (शम्याः) कर्मनामनिघ० २।१। शमी-यत्। शमीषु कर्मसु कुशलाः (हन्तु) गच्छतु (आपः) हे आप्तप्रजाः (योक्त्राणि) युज निन्दायाम्−ष्ट्रन्प्रत्ययः, नित्स्वरः। निन्दितकर्माणि (मुञ्चत) त्यजत (मा) निषेधे (अदुष्कृतौ) अदुष्टकर्माणौ (व्येनसौ) विगतपापौ (अघ्न्यौ) हन्तुमनर्हौ स्त्रीपुरुषौ (अशुनम्) शुन गतौ-क। शुनं सुखनाम-निघ० ३।६।सुखरहितं दुःखम् (आ) समन्तात् (अरताम्) ऋ गतौ-लुङ्। प्राप्नुताम् ॥

    इस भाष्य को एडिट करें
    Top