Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 20
सूक्त - आत्मा
देवता - पुरस्ताद् बृहती
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
य॒दागार्ह॑पत्य॒मस॑पर्यै॒त्पूर्व॑म॒ग्निं व॒धूरि॒यम्। अधा॒ सर॑स्वत्यै नारिपि॒तृभ्य॑श्च॒ नम॑स्कुरु ॥
स्वर सहित पद पाठय॒दा । गार्ह॑ऽपत्यम् । अस॑पर्यैत् । पूर्व॑म् । अ॒ग्निम् । व॒धू: । इ॒यम् । अध॑ । सर॑स्वत्यै । ना॒रि॒ । पि॒तृऽभ्य॑: । च॒ । नम॑: । कु॒रु॒ ॥२.२०॥
स्वर रहित मन्त्र
यदागार्हपत्यमसपर्यैत्पूर्वमग्निं वधूरियम्। अधा सरस्वत्यै नारिपितृभ्यश्च नमस्कुरु ॥
स्वर रहित पद पाठयदा । गार्हऽपत्यम् । असपर्यैत् । पूर्वम् । अग्निम् । वधू: । इयम् । अध । सरस्वत्यै । नारि । पितृऽभ्य: । च । नम: । कुरु ॥२.२०॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 20
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २०−(यदा) यस्मिन् काले (गार्हपत्यम्) गृहपतिसंबन्धिनम् (असपर्यैत्) असपर्यत्। सेवितवती (पूर्वम्) अग्रे (अग्निम्) अग्निविद्याम् (वधू) (इयम्) (अध) अथ (सरस्वत्यै) सरो विज्ञानं विद्यते यस्यां चितौ सा सरस्वती, तस्यै। सर्वविज्ञानवते परमेश्वराय (नारि) हे नरस्य पत्नि (पितृभ्यः)पितृतुल्यमान्येभ्यः (च) (नमः) नमस्कारम् (कुरु) ॥
इस भाष्य को एडिट करें