Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 67
सूक्त - आत्मा
देवता - अनुष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
सं॑भ॒ले मलं॑सादयि॒त्वा क॑म्ब॒ले दु॑रि॒तं व॒यम्। अभू॑म य॒ज्ञियाः॑ शु॒द्धाः प्र ण॒ आयूं॑षितारिषत् ॥
स्वर सहित पद पाठस॒म्ऽभ॒ले । मल॑म् । सा॒द॒यि॒त्वा । क॒म्ब॒ले । दु॒:ऽइ॒तम् । व॒यम् । अभू॑म । य॒ज्ञिया॑: । शु॒ध्दा: । प्र । न॒: । आयूं॑षि । ता॒रि॒ष॒त् ॥२.६७॥
स्वर रहित मन्त्र
संभले मलंसादयित्वा कम्बले दुरितं वयम्। अभूम यज्ञियाः शुद्धाः प्र ण आयूंषितारिषत् ॥
स्वर रहित पद पाठसम्ऽभले । मलम् । सादयित्वा । कम्बले । दु:ऽइतम् । वयम् । अभूम । यज्ञिया: । शुध्दा: । प्र । न: । आयूंषि । तारिषत् ॥२.६७॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 67
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६७−(संभले) म० ६६। षष्ठ्यर्थे सप्तमी। सम्यग् निरूपकस्य (मलम्) मालिन्यम् (सादयित्वा) नाशयित्वा (कम्बले) म० ६६। कमनीये कर्मणि (दुरितम्) दोषम् (वयम्)पुरुषाः (अभूम) भवेम (यज्ञियाः) पूजार्हाः (शुद्धाः) प्रसन्नाः (प्र तारिषत्)वर्धयेत् (नः) अस्माकम् (आयूंषि) जीवनानि ॥
इस भाष्य को एडिट करें