Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 19
सूक्त - आत्मा
देवता - त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
उत्ति॑ष्ठे॒तःकिमि॒च्छन्ती॒दमागा॑ अ॒हं त्वे॑डे अभि॒भूः स्वाद्गृ॒हात्। शू॑न्यै॒षी नि॑रृते॒याज॒गन्धोत्ति॑ष्ठाराते॒ प्र प॑त॒ मेह रं॑स्थाः ॥
स्वर सहित पद पाठउत् । ति॒ष्ठ॒ । इ॒त: । किम् । इ॒च्छन्ती॑ । इ॒दम् । आ । अ॒गा॒: । अ॒हम् । त्वा॒ । ई॒डे॒ । अ॒भि॒ऽभू: । स्वात् । गृ॒हात् । शू॒न्य॒ऽए॒षी । नि॒:ऽऋ॒ते॒ । या । आ॒ऽज॒गन्ध॑ । उत् । ति॒ष्ठ॒ । अ॒रा॒ते॒ । प्र । प॒त॒ । मा । इह । रं॒स्था॒: ॥१.१९॥
स्वर रहित मन्त्र
उत्तिष्ठेतःकिमिच्छन्तीदमागा अहं त्वेडे अभिभूः स्वाद्गृहात्। शून्यैषी निरृतेयाजगन्धोत्तिष्ठाराते प्र पत मेह रंस्थाः ॥
स्वर रहित पद पाठउत् । तिष्ठ । इत: । किम् । इच्छन्ती । इदम् । आ । अगा: । अहम् । त्वा । ईडे । अभिऽभू: । स्वात् । गृहात् । शून्यऽएषी । नि:ऽऋते । या । आऽजगन्ध । उत् । तिष्ठ । अराते । प्र । पत । मा । इह । रंस्था: ॥१.१९॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 19
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १९−(उत्तिष्ठ) दूरे गच्छ (इतः) अस्मात् सुप्रबन्धयुक्तगृहात् (किम्) अहितम् (इच्छन्ती) (इदम्) गृहम् (आ अगाः) आगतवती (अहम्) पुरुषार्थी गृहस्थः (त्वा)त्वाम् (ईडे) रस्य डः। ईरे। प्रेरयामि (अभिभूः) अभिभविता। विजयी (स्वात्) (गृहात्) (शून्यैषी) शूनायै प्राणिहिंसायै हितम्, शूना-यत्+इष इच्छायाम्-अच्, ङीप्। निर्जनत्वमिच्छन्ती (निर्ऋते) अ० १।३१।२। हे कृच्छ्रापत्ते-निरु० २।७। हेअलक्ष्मि (या) या त्वम् (आजगन्ध) थस्य धः। आजगन्थ। आगतवती (उत्तिष्ठ) (अराते) हेअदानशीले (प्रपत) बहिर्गच्छ (इह) अस्मिन् गृहे (मा रंस्थाः) नैवोपरम ॥
इस भाष्य को एडिट करें