Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 33
    सूक्त - आत्मा देवता - विराट् आस्तार पङ्क्ति छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    उत्ति॑ष्ठे॒तोवि॑श्वावसो॒ नम॑सेडामहे त्वा। जा॒मिमि॑च्छ पितृ॒षदं॒ न्यक्तां॒ स ते॑ भा॒गोज॒नुषा॒ तस्य॑ विद्धि ॥

    स्वर सहित पद पाठ

    उत् । ति॒ष्ठ॒ । इ॒त: । वि॒श्व॒व॒सो॒ इति॑ विश्वऽवसो । नम॑सा । ई॒डा॒म॒हे॒ । त्वा॒। जा॒मिम् । इ॒च्छ॒ । पि॒तृ॒ऽसद॑म् । निऽअ॑क्ताम् । स: । ते॒ । भा॒ग: । ज॒नुषा॑ । तस्य॑ । वि॒ध्दि॒ ॥२.३३॥


    स्वर रहित मन्त्र

    उत्तिष्ठेतोविश्वावसो नमसेडामहे त्वा। जामिमिच्छ पितृषदं न्यक्तां स ते भागोजनुषा तस्य विद्धि ॥

    स्वर रहित पद पाठ

    उत् । तिष्ठ । इत: । विश्ववसो इति विश्वऽवसो । नमसा । ईडामहे । त्वा। जामिम् । इच्छ । पितृऽसदम् । निऽअक्ताम् । स: । ते । भाग: । जनुषा । तस्य । विध्दि ॥२.३३॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 33

    टिप्पणीः - ३३−(उत्तिष्ठ) उद्गच्छ (इतः)स्थानात् (विश्वावसो) हे सर्वधनोपेत, वर (नमसा) सत्कारेण (ईडामहे) याचामहे (जामिम्) कुलस्त्रियम्। अत्र मनुः ३।५७। शोचन्ति जामयो यत्र विनश्यत्याशुतत्कुलम्। (इच्छ) प्रीणीहि (पितृपदम्) पितृकुलस्थिताम् (न्यक्ताम्) अञ्जिघृसिभ्यःक्तः। उ० ३।८९। अञ्जू व्यक्तिम्रक्षणादिषु-क्त। नियमेन कृताभ्यञ्जनाम्। कृतविवाहसंस्काराम् (सः) पूर्वोक्तः (ते) तव (भागः) सेवनीयः पदार्थः (जनुषा)मनुष्यजन्मना (तस्य) पूर्वोक्तस्य (विद्धि) ज्ञानं कुरु ॥

    इस भाष्य को एडिट करें
    Top