Sidebar
अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 34
सूक्त - आत्मा
देवता - परानुष्टुप् त्रिष्टुप्
छन्दः - सवित्री, सूर्या
सूक्तम् - विवाह प्रकरण सूक्त
अ॑प्स॒रसः॑सधमादं मदन्ति हवि॒र्धान॑मन्त॒रा सूर्यं॑ च। तास्ते॑ ज॒नित्र॑म॒भि ताः परे॑हि॒नम॑स्ते गन्धर्व॒र्तुना॑ कृणोमि ॥
स्वर सहित पद पाठअ॒प्स॒रस॑: । स॒ध॒ऽमाद॑म् । म॒द॒न्ति॒ । ह॒वि॒:ऽधान॑म् । अ॒न्त॒रा । सूर्य॑म् । च॒ । ता: । ते॒ । ज॒नित्र॑म् । अ॒भि । ता: । परा॑ । इ॒हि॒ । नम॑: । ते॒ । ग॒न्ध॒र्व॒ऽऋ॒तुना॑ । कृ॒णो॒मि॒ ॥२.३४॥
स्वर रहित मन्त्र
अप्सरसःसधमादं मदन्ति हविर्धानमन्तरा सूर्यं च। तास्ते जनित्रमभि ताः परेहिनमस्ते गन्धर्वर्तुना कृणोमि ॥
स्वर रहित पद पाठअप्सरस: । सधऽमादम् । मदन्ति । हवि:ऽधानम् । अन्तरा । सूर्यम् । च । ता: । ते । जनित्रम् । अभि । ता: । परा । इहि । नम: । ते । गन्धर्वऽऋतुना । कृणोमि ॥२.३४॥
अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 34
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३४−(अप्सरसः) म० ९। अपःसु कर्मसु व्यापनशीलाः स्त्रियः (सधमादम्)परस्परानन्दोत्सवम् (मदन्ति) हर्षयन्ति (हविर्धानम्) ग्राह्यपदार्थाधारभूतांवधूम् (अन्तरा) निकटे (सूर्यम्) प्रेरकं वरम् (च) (ताः) स्त्रियः (ते) तव (जनित्रम्) जन्मकारणम् (अभि) अभीत्य (ताः) (परा) निकटे (इहि) प्राप्नुहि (नमः)सत्कारम् (ते) तुभ्यम् (गन्धर्वर्तुना) गन्धर्वस्य विद्याधारकस्य ऋतुनायथार्थकालविचारेण (कृणोमि) करोमि ॥
इस भाष्य को एडिट करें