Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 14/ सूक्त 2/ मन्त्र 5
    सूक्त - आत्मा देवता - जगती छन्दः - सवित्री, सूर्या सूक्तम् - विवाह प्रकरण सूक्त

    आवा॑मगन्त्सुम॒तिर्वा॑जिनीवसू॒ न्यश्विना हृ॒त्सु कामा॑ अरंसत। अभू॑तं गो॒पामि॑थु॒ना शु॑भस्पती प्रि॒या अ॑र्य॒म्णो दुर्याँ॑ अशीमहि ॥

    स्वर सहित पद पाठ

    आ । वा॒म् । अ॒ग॒न् । सु॒ऽम॒ति: । वा॒जि॒नी॒व॒सू॒ इति॑ वाजिनीऽवसू । नि । अ॒श्वि॒ना॒ । ह॒त्ऽसु । कामा॑: । अ॒रं॒स॒त॒ । अभू॑तम् । गो॒पा । मि॒थु॒ना । शु॒भ॒: । प॒ती॒ इति॑ । प्रि॒या: । अ॒र्य॒म्ण: दुर्या॑न् । अ॒शी॒म॒हि॒ ॥२.५॥


    स्वर रहित मन्त्र

    आवामगन्त्सुमतिर्वाजिनीवसू न्यश्विना हृत्सु कामा अरंसत। अभूतं गोपामिथुना शुभस्पती प्रिया अर्यम्णो दुर्याँ अशीमहि ॥

    स्वर रहित पद पाठ

    आ । वाम् । अगन् । सुऽमति: । वाजिनीवसू इति वाजिनीऽवसू । नि । अश्विना । हत्ऽसु । कामा: । अरंसत । अभूतम् । गोपा । मिथुना । शुभ: । पती इति । प्रिया: । अर्यम्ण: दुर्यान् । अशीमहि ॥२.५॥

    अथर्ववेद - काण्ड » 14; सूक्त » 2; मन्त्र » 5

    टिप्पणीः - ५−(आ) समन्तात् (वाम्)युवाभ्याम् (अगन्) प्राप्नुयात् (सुमतिः) सुबुद्धिः (वाजिनीवसू) वेगवतीषुअन्नवतीषु वा क्रियासु निवसतस्तौ (नि) निरन्तरम् (अश्विना) हे प्राप्तविद्यौस्त्रीपुरुषौ (हृत्सु) युवयोर्हृदयेषु (कामाः) शुभाभिलाषाः (अरंसत) रमन्ताम्।तिष्ठन्तु (अभूतम्) भवतम् (गोपा) गोपायितारौ। रक्षकौ (मिथुना) उभौ (शुभः)शुभक्रियायाः (पती) पालकौ (प्रियाः) हिता वयम् (अर्यम्णः) श्रेष्ठानां मानयितुःपुरुषस्य (दुर्यान्) अघ्न्यादयश्च। उ० ४।११२। दुर्वी हिंसायाम्-यक्, वकारलोपेदीर्घाभावश्च। हिंसन्ति दुःखम्। गृहान्-निघ० ३।४। (अशीमहि) प्राप्नुयाम ॥

    इस भाष्य को एडिट करें
    Top