Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 33
    सूक्त - अथर्वा देवता - मन्त्रोक्ताः छन्दः - सूक्तम् - ओदन सूक्त

    तत॑श्चैनम॒न्याभ्यां॒ श्रोत्रा॑भ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। ब॑धि॒रो भ॑विष्य॒सीत्ये॑नमाह। तं वा॑ अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। द्यावा॑पृथि॒वीभ्यां॒ श्रोत्रा॑भ्याम्। ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    तत॑: । च॒ । ए॒न॒म् । अ॒न्याभ्या॑म् । श्रोत्रा॑भ्याम् । प्र॒ऽआशी॑: । याभ्या॑म् । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ ब॒धि॒र: ।‍ भ॒वि॒ष्य॒सि॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ द्यावा॑पृथि॒वीभ्या॑म् । श्रोत्रा॑भ्याम् ॥ ताभ्या॑म् । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । ताभ्या॑म् । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽतनू: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.२॥


    स्वर रहित मन्त्र

    ततश्चैनमन्याभ्यां श्रोत्राभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्। बधिरो भविष्यसीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। द्यावापृथिवीभ्यां श्रोत्राभ्याम्। ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥

    स्वर रहित पद पाठ

    तत: । च । एनम् । अन्याभ्याम् । श्रोत्राभ्याम् । प्रऽआशी: । याभ्याम् । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ बधिर: ।‍ भविष्यसि । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ द्यावापृथिवीभ्याम् । श्रोत्राभ्याम् ॥ ताभ्याम् । एनम् । प्र । आशिषम् । ताभ्याम् । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 33

    भाषार्थ -
    (पूर्वे ऋषयः) पूर्व काल के या सद्गुणों से पूरित ऋषियों ने (याभ्याम्, श्रोत्राभ्याम्) जिन श्रोत्रों द्वारा (एतम्) इस ओदन का (प्राश्नन्) प्राशन किया है, (ततः) उस से (च) यदि (अन्याभ्याम्) अन्य अर्थात् भिन्न प्रकार के श्रोत्रों द्वारा (एनम्) इस ओदन का (प्राशीः) तूने प्राशन किया है तो (वधिरो भविष्यति) तू बहरा हो जायेगा (इति) यह (एनम्) इस श्रोता को (आह) ज्ञानी कहे। (तम्) उस ओदन को (वै) निश्चय से (न अर्वाञ्चम्) न इधर गति करते हुए को, (न पराञ्चम्) न दूर के लोकों में गति करते हुए को, (न प्रत्यञ्चम्) न प्रतीक अर्थात् प्रतिकूलभाव में रहते हुए को (अहम्) मैंने प्राशित किया है, अपितु (ताभ्याम् द्यावापृथिवीभ्याम् श्रोत्राभ्याम्) उन द्युलोक तथा पृथिवीरूपी श्रोत्रों द्वारा (एनम्) इस ओदन का (प्राशिषम्) मैंने प्राशन किया है, (ताभ्याम्) उन द्वारा (एनम्) इस को (अजीगमम्) मैंने प्राप्त किया है। (वै) निश्चय से (एषः ओदनः) यह ओदन ब्रह्मौदन (सर्वाङ्गः) सर्वाङ्ग सम्पूर्ण है, (सर्वपरुः) सब सन्धियों अर्थात् जोड़ों से युक्त है, (सर्वतनूः) सम्पूर्ण शरीर वाला है। (यः) जो श्रोता (एवम्) इस प्रकार से (वेद) ब्रह्मौदन को जानता है, वह भी (सर्वाङ्गः) सर्वाङ्ग सम्पूर्ण (सर्वपरुः) सब सन्धियों अर्थात् जोड़ों से युक्त, (सर्वतनूः) सम्पूर्ण शरीर वाला (सं भवति) हो जाता है।

    इस भाष्य को एडिट करें
    Top