अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 43
तत॑श्चैनम॒न्येन॑ व॒स्तिना॒ प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। अ॒प्सु म॑रिष्य॒सीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। स॑मु॒द्रेण॑ व॒स्तिना॑। तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥
स्वर सहित पद पाठतत॑: । च॒ । ए॒न॒म् । अ॒न्येन॑ । व॒स्तिना॑ । प्र॒ऽआशी॑: । येन॑ । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ अ॒प्ऽसु । म॒रि॒ष्य॒सि॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ स॒मु॒द्रेण॑ । व॒स्तिना॑ ॥ तेन॑ । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । तेन॑ । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सर्व॑ऽअङ्ग: ॥ ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑॥४.१२॥
स्वर रहित मन्त्र
ततश्चैनमन्येन वस्तिना प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्। अप्सु मरिष्यसीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। समुद्रेण वस्तिना। तेनैनं प्राशिषं तेनैनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥
स्वर रहित पद पाठतत: । च । एनम् । अन्येन । वस्तिना । प्रऽआशी: । येन । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ अप्ऽसु । मरिष्यसि । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ समुद्रेण । वस्तिना ॥ तेन । एनम् । प्र । आशिषम् । तेन । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: । सर्वऽअङ्ग: ॥ एव । सर्वऽपरु: । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद॥४.१२॥
अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 43
भाषार्थ -
(पूर्वे ऋषयः) पूर्वकाल के या सद्गुणों से पूरित ऋषियों ने (येन वस्तिना) जिस मूत्राशय से (एतम्) इस ओदन का (प्राश्नन्) प्राशन किया है, (ततः) उससे (अन्येन) भिन्न प्रकार के (वस्तिना) मूत्राशय से (च=चेत्) यदि (एनम्) इस ओदन का (प्राशीः) तूने प्राशन किया है, तो (अप्सु) जलों में (मरिष्यति) तू मरेगा, (इति) यह (एनम्) इस प्राशन कर्त्ता को विज्ञ (आह) कहे। (तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्) अर्थ पूर्ववत्, मन्त्र ३५। (तेन) उस (समुद्रेण वस्तिना) समुद्ररूपी मूत्राशय की दृष्टि से (एनम्) इस ओदन का (प्राशिषम्) मैंने प्राशन किया है, (तेन) उस द्वारा (एनम्) इस को (अजीगमम्) मैंने अन्य अङ्गों तक पहुंचाया है। (एष वा ओदनः …...वेद) अर्थ पूर्ववत् मन्त्र ३५।
टिप्पणी -
[समुद्र खारी होता है, अम्ल नहीं। भोजन में भोज्य पदार्थ ऐसा होना चाहिये जो कि मूत्र में अम्ल पैदा न करे, तथा जलपान भी इसी प्रकार होना चाहिये। मूत्र यदि अम्ल होगा तो मूत्र जलन करता हुआ मूत्रेन्द्रिय द्वारा प्रस्रवित होगा। मिष्टान्न का अधिक प्रयोग मूत्र को अम्ल बना देता है, और मधुमेह जैसे रोगों को उत्पन्न कर देता है। तभी समुद्रवत्१ जलपान प्रभूत मात्रा में होना चाहिये, इस से वस्तिरोग नहीं होता]। [१. 'यत्पिबामि सं पिबामि समुद्र इव संपिबः।" (अथर्व० ६।१३५।२)।]