Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 44
    सूक्त - अथर्वा देवता - मन्त्रोक्ताः छन्दः - सूक्तम् - ओदन सूक्त

    तत॑श्चैनम॒न्याभ्या॑मू॒रुभ्यां॒ प्राशी॒र्याभ्यां॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। ऊ॒रू ते॑ मरिष्यत॒ इत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। मि॒त्राव॑रुणयोरू॒रुभ्या॑म्। ताभ्या॑मेनं॒ प्राशि॑षं॒ ताभ्या॑मेनमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑।

    स्वर सहित पद पाठ

    तत॑: । च॒ । ए॒न॒म् । अ॒न्याभ्या॑म् । ऊ॒रुऽभ्या॑म् । प्र॒ऽआशी॑: । याभ्या॑म् । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ ऊ॒रू॑ इति॑ । ते॒ । म॒रि॒ष्य॒त॒: ।‍ इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ मि॒त्रावरु॑णयो: । ऊ॒रुऽभ्या॑म् ॥ ताभ्या॑म् । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । ताभ्या॑म् । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽपरु: । सर्व॑ऽतनू: ॥ सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.१३॥


    स्वर रहित मन्त्र

    ततश्चैनमन्याभ्यामूरुभ्यां प्राशीर्याभ्यां चैतं पूर्व ऋषयः प्राश्नन्। ऊरू ते मरिष्यत इत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। मित्रावरुणयोरूरुभ्याम्। ताभ्यामेनं प्राशिषं ताभ्यामेनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद।

    स्वर रहित पद पाठ

    तत: । च । एनम् । अन्याभ्याम् । ऊरुऽभ्याम् । प्रऽआशी: । याभ्याम् । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ ऊरू इति । ते । मरिष्यत: ।‍ इति । एनम् । आह ॥ तम् । वै । अहम् । न । अवाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ मित्रावरुणयो: । ऊरुऽभ्याम् ॥ ताभ्याम् । एनम् । प्र । आशिषम् । ताभ्याम् । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽपरु: । सर्वऽतनू: ॥ सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.१३॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 44

    भाषार्थ -
    (पूर्वे ऋषयः) पूर्व काल के या सद्गुणों से पूरित ऋषियों ने (याभ्याम्, ऊरुभ्याम्) जिन दो ऊरुओं से (एतम्) इस ओदन को (प्राश्नन्) प्राशन किया है, (ततः) उस से (अन्याभ्याम्) भिन्न प्रकार के (ऊरुभ्याम्) ऊरुओं से (च= चेत्) यदि (एनम्) इस ओदन का (प्राशीः) तू ने प्राशन किया है, तो (ते) तेरे (उरु) दोनों ऊरु (मरिष्यतः) प्राणहीन हो जायेंगे, निःशक्त हो जायेंगे, (इति) यह (एनम्) इस प्राशनकर्त्ता को विज्ञ (आह) कहता है। (तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्) अर्थ पूर्ववत् मन्त्र ३५। (ताभ्याम् मित्रावरुणयोः, ऊरुभ्याम्) मित्र और वरुण के उन दो ऊरुओं से (एनम्) इस ओदन का (प्राशिषम्) मैंने प्राशन किया है, (ताभ्याम्) उन द्वारा (एनम्) इस ओदन को (अजीगमम्) मैंने अन्य अङ्गों में पहुंचाया है, अर्थात् इस ओदन के परिपक्व रस को अन्य अङ्गो में पहुंचाया है। (एष वा ओदन….. वेद) अर्थ पूर्ववत् मन्त्र ३५।

    इस भाष्य को एडिट करें
    Top