Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 3/ मन्त्र 32
    सूक्त - अथर्वा देवता - मन्त्रोक्ताः छन्दः - सूक्तम् - ओदन सूक्त

    तत॑श्चैनम॒न्येन॑ शी॒र्ष्णा प्राशी॒र्येन॑ चै॒तं पूर्व॒ ऋष॑यः॒ प्राश्न॑न्। ज्ये॑ष्ठ॒तस्ते॑ प्र॒जा म॑रिष्य॒तीत्ये॑नमाह। तं वा अ॒हं ना॒र्वाञ्चं॒ न परा॑ञ्चं॒ न प्र॒त्यञ्च॑म्। बृ॑ह॒स्पति॑ना शी॒र्ष्णा। तेनै॑नं॒ प्राशि॑षं॒ तेनै॑नमजीगमम्। ए॒ष वा ओ॑द॒नः सर्वा॑ङ्गः॒ सर्व॑परुः॒ सर्व॑तनूः। सर्वा॑ङ्ग ए॒व सर्व॑परुः॒ सर्व॑तनूः॒ सं भ॑वति॒ य ए॒वं वेद॑ ॥

    स्वर सहित पद पाठ

    तत॑: । च॒ । ए॒न॒म् । अ॒न्येन॑ । शी॒र्ष्णा । प्र॒ऽआशी॑: । येन॑ । च॒ । ए॒तम् । पूर्वे॑ । ऋष॑य: । प्र॒ऽआश्न॑न् ॥ ज्ये॒ष्ठ॒त: । ते॒ । प्र॒ऽजा । म॒रि॒ष्य॒ति॒ । इति॑ । ए॒न॒म् । आ॒ह॒ ॥ तम् । वै । अ॒हम् । न । अ॒र्वाञ्च॑म् । न । परा॑ञ्चम् । न । प्र॒त्यञ्च॑म् ॥ बृह॒स्पती॑ना । शी॒र्ष्णा ॥ तेन॑ । ए॒न॒म् । प्र । आ॒शि॒ष॒म् । तेन॑ । ए॒न॒म् । अ॒जी॒ग॒म॒म् ॥ ए॒ष: । वै । ओ॒द॒न: । सर्व॑ऽअङ्ग: । सर्व॑ऽतनू: । सर्व॑ऽअङ्ग: । ए॒व । सर्व॑ऽपरु: । सर्व॑ऽतनू: । सम् । भ॒व॒ति॒ । य: । ए॒वम् । वेद॑ ॥४.१॥


    स्वर रहित मन्त्र

    ततश्चैनमन्येन शीर्ष्णा प्राशीर्येन चैतं पूर्व ऋषयः प्राश्नन्। ज्येष्ठतस्ते प्रजा मरिष्यतीत्येनमाह। तं वा अहं नार्वाञ्चं न पराञ्चं न प्रत्यञ्चम्। बृहस्पतिना शीर्ष्णा। तेनैनं प्राशिषं तेनैनमजीगमम्। एष वा ओदनः सर्वाङ्गः सर्वपरुः सर्वतनूः। सर्वाङ्ग एव सर्वपरुः सर्वतनूः सं भवति य एवं वेद ॥

    स्वर रहित पद पाठ

    तत: । च । एनम् । अन्येन । शीर्ष्णा । प्रऽआशी: । येन । च । एतम् । पूर्वे । ऋषय: । प्रऽआश्नन् ॥ ज्येष्ठत: । ते । प्रऽजा । मरिष्यति । इति । एनम् । आह ॥ तम् । वै । अहम् । न । अर्वाञ्चम् । न । पराञ्चम् । न । प्रत्यञ्चम् ॥ बृहस्पतीना । शीर्ष्णा ॥ तेन । एनम् । प्र । आशिषम् । तेन । एनम् । अजीगमम् ॥ एष: । वै । ओदन: । सर्वऽअङ्ग: । सर्वऽतनू: । सर्वऽअङ्ग: । एव । सर्वऽपरु: । सर्वऽतनू: । सम् । भवति । य: । एवम् । वेद ॥४.१॥

    अथर्ववेद - काण्ड » 11; सूक्त » 3; मन्त्र » 32

    भाषार्थ -
    (पूर्वे ऋषयः) पूर्व काल के या सद्गुणों से पूरित ऋषियों ने (येन शीर्ष्णा) जिस सिर से (एतम्) इस ओदन का (प्राश्नन्) प्राशन किया है (ततः) उस से (च) यदि (अन्येन शीर्ष्णा) भिन्न सिर से (एनम्) इस ओदन का (प्राशीः) तूने प्राशन किया है, तो (ते प्रजा) तेरी प्रजा (ज्येष्ठतः) ज्येष्ठ अंग से प्रारम्भ कर के (मरिष्यति) मर जायेगी (इति) यह (एनम्) इस प्राशन करने वाले को कहे। (तम्) उस ओदन को (वै) निश्चय से, (न अर्वाञ्चम्१) न इधर गति करते हुए को, (न पराञ्चम्१) न दूर के लोकों में गति करते हुए को, (न प्रत्यञ्चम्१) न प्रतीक अर्थात् प्रतिकूल भाव में रहते हुए को (अहम्) मैंने प्राशित किया है। (बृहस्पतिना शीर्ष्णा) बृहस्पति रूप सिर से मैं ने उस ओदन का प्राशन किया हैं। (तेन) उस सिर से (एनम्) इस ओदन का (प्राशिषम्) मैं ने प्राशन किया है, (तेन) उस सिर द्वारा (एनम्) इस ओदन को (अजीगमम्) मैंने प्राप्त किया है। (एषः) यह ओदन (वै) निश्चय से (सर्वाङ्गः) सर्वाङ्ग सम्पूर्ण है, (सर्वपरुः) सब सन्धियों से युक्त हैं, (सर्वतनूः) सम्पूर्ण शरीर अर्थात् स्वरूप वाला है। (एषः) यह प्राशन कर्ता भी (सर्वाङ्गः, सर्वपरुः, सर्वतनूः) सर्वाङ्ग सम्पूर्ण, सब सन्धियों से युक्त, सम्पूर्ण शरीर वाला (स भवति) हो जाता (यः) जो कि (एवम्) इस प्रकार (वेद) ओदन के प्राशन के तत्त्व को (वेद) जानता है।

    इस भाष्य को एडिट करें
    Top