Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 1
    सूक्त - यम, मन्त्रोक्त देवता - अथर्वा छन्दः - भुरिक् त्रिष्टुप् सूक्तम् - पितृमेध सूक्त

    आ रो॑हत॒जनि॑त्रीं जातवेदसः पितृ॒याणैः॒ सं व॒ आ रो॑हयामि। अवा॑ड्ढ॒व्येषि॒तो ह॑व्यवा॒हई॑जा॒नं यु॒क्ताः सु॒कृतां॑ धत्त लो॒के ॥

    स्वर सहित पद पाठ

    आ । रो॒ह॒त॒ । जनि॑त्रीम् । जा॒तऽवे॑दस: । पि॒तृऽयानै॑: । सम् । व॒: । आ । रो॒ह॒या॒मि॒ । अवा॑ट् । ह॒व्या । इ॒षि॒त: । ह॒व्य॒ऽवाह॑: । ई॒जा॒नम् । यु॒क्ता: । सु॒ऽकृता॑म् । ध॒त्त॒ ।लो॒के ॥४.१॥


    स्वर रहित मन्त्र

    आ रोहतजनित्रीं जातवेदसः पितृयाणैः सं व आ रोहयामि। अवाड्ढव्येषितो हव्यवाहईजानं युक्ताः सुकृतां धत्त लोके ॥

    स्वर रहित पद पाठ

    आ । रोहत । जनित्रीम् । जातऽवेदस: । पितृऽयानै: । सम् । व: । आ । रोहयामि । अवाट् । हव्या । इषित: । हव्यऽवाह: । ईजानम् । युक्ता: । सुऽकृताम् । धत्त ।लोके ॥४.१॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 1

    टिप्पणीः - १−(आ) व्याप्य (रोहत) प्रादुर्भवत (जनित्रीम्) अ० २।१।३। जन जनने-णिचि तृच्, ङीप्। जनयित्रीम्। जगतो जननींपरमात्मानम् (जातवेदसः) प्रसिद्धज्ञानवन्तो यूयम् (पितृयाणैः) पितॄणां मार्गैः (सम्) संगत्य (वः) युष्मान् (आ होहयामि) अधिष्ठापयामि (अवाट्) अ० १८।३।४२। वहेर्लुङि रूपम्। अवाक्षीत्। प्रापितवान् (हव्या) दातव्यग्राह्यवस्तूनि (इषितः) इषुइच्छायाम्-क्त। तीषसहलुभरुषरिषः। पा० ७।२।४८। इडागमः। इष्टः। प्रियः (हव्यवाहः)हव्य+वह प्रापणे-अण्। दातव्यग्राह्यपदार्थानां प्रापकः परमेश्वरः (ईजानम्)यजेर्लिटः कानच्। इष्टवन्तम्। समाप्तयज्ञं पुरुषम् (युक्ताः) संयुक्ता यूयम् (सुकृताम्)सुकर्मणाम् (धत्त) स्थापयत (लोके) समाजे ॥

    इस भाष्य को एडिट करें
    Top