Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 3
    सूक्त - यम, मन्त्रोक्त देवता - पञ्चपदा भुरिक् अति जगती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    ऋ॒तस्य॒पन्था॒मनु॑ पश्य सा॒ध्वङ्गि॑रसः सु॒कृतो॒ येन॒ यन्ति॑। तेभि॒र्याहि॑ प॒थिभिः॑स्व॒र्गं यत्रा॑दि॒त्या मधु॑ भ॒क्षय॑न्ति तृ॒तीये॒ नाके॒ अधि॒ वि श्र॑यस्व॥

    स्वर सहित पद पाठ

    ऋ॒तस्य॑ । पन्था॑म् । अनु॑ । प॒श्य॒ । सा॒धु । अङ्गि॑रस: । सु॒ऽकृत॑: । येन॑ । यन्ति॑ । तेभि॑: । या॒हि॒ । प॒थिऽभि॑: । स्व॒:ऽगम् । यत्र॑ । आ॒दि॒त्या: । मधु॑ । भ॒क्षय॑न्ति । तृ॒तीये॑ । नाके॑ । अधि॑ । वि । श्र॒य॒स्व॒ ॥४.३॥


    स्वर रहित मन्त्र

    ऋतस्यपन्थामनु पश्य साध्वङ्गिरसः सुकृतो येन यन्ति। तेभिर्याहि पथिभिःस्वर्गं यत्रादित्या मधु भक्षयन्ति तृतीये नाके अधि वि श्रयस्व॥

    स्वर रहित पद पाठ

    ऋतस्य । पन्थाम् । अनु । पश्य । साधु । अङ्गिरस: । सुऽकृत: । येन । यन्ति । तेभि: । याहि । पथिऽभि: । स्व:ऽगम् । यत्र । आदित्या: । मधु । भक्षयन्ति । तृतीये । नाके । अधि । वि । श्रयस्व ॥४.३॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 3

    टिप्पणीः - ३−(ऋतस्य) सत्यधर्मस्य (पन्थाम्) मार्गम् (अनु) निरन्तरम् (पश्य) अवलोकय (साधु) यथा भवति तथा। साधुत्वेन कुशलत्वेन (अङ्गिरसः) महाज्ञानिनः (सुकृतः) पुण्यकर्माणः (येन) मार्गेण (यन्ति) गच्छन्ति (तेभिः) तैः (याहि)प्राप्नुहि (पथिभिः) मार्गैः (स्वर्गम्) सुखप्रापकं पदम् (यत्र) येषु मार्गेषु (आदित्याः) अदिति-ण्य। अदितिरखण्डव्रतं येषां ते विद्वांसः (मधु) ज्ञानरसम् (भक्षयन्ति) भुञ्जते। अनुभवन्ति (तृतीये) जीवप्रकृतिभ्यां भिन्ने (नाके) अ०१।९।२। पिनाकादयश्च। उ० ४।५१। णीञ् प्रापणे-आक प्रत्ययः, टिलोपः। नाक आदित्योभवति नेता भासां ज्योतिषां प्रणयोऽथ द्यौः, कमिति सुखनाम तत्प्रतिषिद्धंप्रतिषिध्यते-निरु० २।१४। सुखस्वरूपे सर्वनायके वा परमात्मनि (अधि) अधिकृत्य (वि) विविधम् (श्रयस्व) आश्रितो भव ॥

    इस भाष्य को एडिट करें
    Top