Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 13
सूक्त - यम, मन्त्रोक्त
देवता - त्र्यवसाना पञ्चपदा शक्वरी
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
य॒ज्ञ ए॑ति॒वित॑तः॒ कल्प॑मान ईजा॒नम॒भि लो॒कं स्व॒र्गम्। तम॒ग्नयः॒ सर्व॑हुतं जुषन्तांप्राजाप॒त्यं मेध्यं॑ जा॒तवे॑दसः। शृ॒तं कृ॒ण्वन्त॑ इ॒हमाव॑ चिक्षिपन् ॥
स्वर सहित पद पाठय॒ज्ञ: । ए॒ति॒ । विऽत॑त: । कल्प॑मान: । ई॒जा॒नम् । अ॒भि । लो॒कम् । स्व॒:ऽगम् । तम् । अ॒ग्नय॑: । सर्व॑ऽहुतम् । जु॒ष॒न्ता॒म् । प्रा॒जा॒ऽप॒त्यम् । मेध्य॑म् । जा॒तऽवे॑दस: । शृ॒तम् । कृ॒ण्वन्त॑: । इ॒ह । मा । अव॑ । चि॒क्षि॒प॒न् ॥४.१३॥
स्वर रहित मन्त्र
यज्ञ एतिविततः कल्पमान ईजानमभि लोकं स्वर्गम्। तमग्नयः सर्वहुतं जुषन्तांप्राजापत्यं मेध्यं जातवेदसः। शृतं कृण्वन्त इहमाव चिक्षिपन् ॥
स्वर रहित पद पाठयज्ञ: । एति । विऽतत: । कल्पमान: । ईजानम् । अभि । लोकम् । स्व:ऽगम् । तम् । अग्नय: । सर्वऽहुतम् । जुषन्ताम् । प्राजाऽपत्यम् । मेध्यम् । जातऽवेदस: । शृतम् । कृण्वन्त: । इह । मा । अव । चिक्षिपन् ॥४.१३॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 13
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १३−(यज्ञः) यजदेवपूजासङ्गतिकरणदानेषु-नङ्। इज्यते हविर्दीयतेऽत्र।ब्रह्मयज्ञदेवयज्ञपितृयज्ञभूतयज्ञ-नृयज्ञानां समुदायः (एति) अन्तर्गतण्यर्थः।गमयति (विततः) विस्तृतः (कल्पमानः) समर्थः सन् (ईजानम्) समाप्तयज्ञं पुरुषम् (अभि) प्रति (लोकम्) समाजम् (स्वर्गम्) सुखप्रापकम् (तम्) (अग्नयः)पूर्वाग्न्यादयः-म० ९। (सर्वहुतम्) सर्वं हुतं यज्ञे हविर्दत्तं येन तंकृतपूर्णाहुतिकम् (जुषन्ताम्) जुषी प्रीतिसेवनयोः। प्रीणन्तु। तर्पयन्तु।
इस भाष्य को एडिट करें