Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 32
    सूक्त - यम, मन्त्रोक्त देवता - अनुष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    धा॒नाधे॒नुर॑भवद्व॒त्सो अ॑स्यास्ति॒लोऽभ॑वत्। तां वै य॒मस्य॒ राज्ये॒ अक्षि॑ता॒मुप॑जीवति ॥

    स्वर सहित पद पाठ

    धा॒ना: । धे॒नु: । अ॒भ॒व॒त् । व॒त्स: । अ॒स्या॒: । ति॒ल: । अ॒भ॒व॒त् । ताम् । वै । य॒मस्य॑ । राज्ये॑ । अक्षि॑ताम् । उप॑ । जी॒व॒ति॒ ॥४.३२॥


    स्वर रहित मन्त्र

    धानाधेनुरभवद्वत्सो अस्यास्तिलोऽभवत्। तां वै यमस्य राज्ये अक्षितामुपजीवति ॥

    स्वर रहित पद पाठ

    धाना: । धेनु: । अभवत् । वत्स: । अस्या: । तिल: । अभवत् । ताम् । वै । यमस्य । राज्ये । अक्षिताम् । उप । जीवति ॥४.३२॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 32

    टिप्पणीः - ३२−(धानाः) सुसंस्कृतपौष्टिकपदार्थाः (धेनुः) दोग्ध्री गौः (अभवत्) भवति (वत्सः) गोशिशुः। वृषभः (अस्याः) धेनोः सकाशात् (तिलः)तिलसर्षपादिपदार्थः (ताम्) गाम् (वै) निश्चयेन (यमस्य) न्यायशीलस्य राज्ञः (राज्ये) जनपदे (अक्षिताम्) अहिंसिताम् (उप) उपेत्य (जीवति) प्राणान् धारयति ॥

    इस भाष्य को एडिट करें
    Top