Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 58
वृषा॑ मती॒नांप॑वते विचक्ष॒णः सूरो॒ अह्नां॑ प्र॒तरी॑तो॒षसां॑ दि॒वः। प्रा॒णः सिन्धू॑नांक॒लशाँ॑ अचिक्रद॒दिन्द्र॑स्य॒ हार्दि॑मावि॒शन्म॑नी॒षया॑ ॥
स्वर सहित पद पाठवृषा॑ । म॒ती॒नाम् । प॒व॒ते॒ । वि॒ऽच॒क्ष॒ण: । सूर॑: । अह्ना॑म् । प्र॒ऽतरी॑ता । उ॒षसा॑म् । दि॒व: । प्रा॒ण: । सिन्धू॑नाम् । क॒लशा॑न् । अ॒चि॒क्र॒द॒त् । इन्द्र॑स्य । हार्दि॑म् । आ॒ऽवि॒शन् । म॒नी॒षया॑ ॥४.५८॥
स्वर रहित मन्त्र
वृषा मतीनांपवते विचक्षणः सूरो अह्नां प्रतरीतोषसां दिवः। प्राणः सिन्धूनांकलशाँ अचिक्रददिन्द्रस्य हार्दिमाविशन्मनीषया ॥
स्वर रहित पद पाठवृषा । मतीनाम् । पवते । विऽचक्षण: । सूर: । अह्नाम् । प्रऽतरीता । उषसाम् । दिव: । प्राण: । सिन्धूनाम् । कलशान् । अचिक्रदत् । इन्द्रस्य । हार्दिम् । आऽविशन् । मनीषया ॥४.५८॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 58
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५८−(वृषा) वृषु सेचने परमैश्वर्ये च-कनिन्। परमैश्वर्यवान्। इन्द्रः। परमेश्वरः (मतीनाम्) बुद्धिनाम् (पवते) शोधको भवति (विचक्षणः) विशेषेण द्रष्टा (सूरः)प्रेरकः सूर्यः (अह्नाम्) दिनानाम् (प्रतरीता) तरतेस्तृच्। वॄतो वा। पा० ७।२।३८।इति इडागमस्य दीर्घः। प्रवर्धयिता (दिवः) स्वप्रकाशात् (प्राणः) प्राणयिता।चेष्टयिता (सिन्धूनाम्) नदीनाम् (कलशान्) कलशसदृशान् मेघान् (अचिक्रदत्) क्रदआह्वानरोदनयोः-णिचि लुङि रूपम्। प्रतिध्वनिं कारितवान् (इन्द्रस्य) सूर्यस्य (हार्दिम्) अ० ६।८९।१। हृद्-इञ्। हार्दिकां शाक्तिम् (आविशन्) प्रविशन् (मनीषया)बुद्धिमत्तया ॥
इस भाष्य को एडिट करें