Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 35
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    वै॑श्वान॒रेह॒विरि॒दं जु॑होमि साह॒स्रं श॒तधा॑र॒मुत्स॑म्। स बि॑भर्ति पि॒तरं॑पिताम॒हान्प्र॑पिताम॒हान्बि॑भर्ति॒ पिन्व॑मानः ॥

    स्वर सहित पद पाठ

    वै॒श्वा॒न॒रे । ह॒वि: । इ॒दम् । जु॒हो॒मि॒ । सा॒ह॒स्रम् । श॒तऽधा॑रम् । उत्स॑म् । स: । बि॒भ॒र्ति॒ । पि॒तर॑म् । पि॒ता॒म॒हान् । प्र॒ऽपि॒ता॒म॒हान् । बि॒भ॒र्ति॒ । पिन्व॑मान: ॥४.३५॥


    स्वर रहित मन्त्र

    वैश्वानरेहविरिदं जुहोमि साहस्रं शतधारमुत्सम्। स बिभर्ति पितरंपितामहान्प्रपितामहान्बिभर्ति पिन्वमानः ॥

    स्वर रहित पद पाठ

    वैश्वानरे । हवि: । इदम् । जुहोमि । साहस्रम् । शतऽधारम् । उत्सम् । स: । बिभर्ति । पितरम् । पितामहान् । प्रऽपितामहान् । बिभर्ति । पिन्वमान: ॥४.३५॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 35

    टिप्पणीः - ३५−(वैश्वानरे) निमित्ते सप्तमी। सर्वनरहितपुरुषस्य निमित्ते (हविः) ग्राह्यं वस्तु गोरूपम् (जुहोमि) ददामि (साहस्रम्) बहूपकारक्षमम् (शतधारम्) बहुदुग्धधारायुक्तम् (उत्सम्) उन्दी क्लेदने-स प्रत्ययः। स्रवज्जलस्यपातसदृशं गोरूपदार्थम् (सः) गोरूपपदार्थः (बिभर्ति) पुष्णाति (पितरम्)बहुवचनस्यैकवचनम्। पितॄन्। पित्रादिमाननीयान् (पितामहान्) पितामहादीन्सत्करणीयान् (प्रपितामहान्) प्रपितादीन् महामान्यान् (बिभर्ति) (पिन्वमानः) पिविसेचने, सेवने च−चानश्। सेव्यमानः ॥

    इस भाष्य को एडिट करें
    Top