Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 50
एयम॑ग॒न्दक्षि॑णाभद्र॒तो नो॑ अ॒नेन॑ द॒त्ता सु॒दुघा॑ वयो॒धाः। यौव॑ने जी॒वानु॑पपृञ्च॒ती ज॒रापि॒तृभ्य॑ उपसं॒परा॑णयादि॒मान् ॥
स्वर सहित पद पाठआ । इ॒यम् । अ॒ग॒न् । दक्षि॑णा । भ॒द्र॒त: । न॒: । अ॒नेन॑ । द॒त्ता । सु॒ऽदुघा॑ । व॒य॒:ऽधा: । यौव॑ने । जी॒वान् । उ॒प॒ऽपृञ्च॑ती । ज॒रा । पि॒तृऽभ्य॑: । उ॒प॒ऽसंप॑रानयात् । इ॒मान् ॥४.५०॥
स्वर रहित मन्त्र
एयमगन्दक्षिणाभद्रतो नो अनेन दत्ता सुदुघा वयोधाः। यौवने जीवानुपपृञ्चती जरापितृभ्य उपसंपराणयादिमान् ॥
स्वर रहित पद पाठआ । इयम् । अगन् । दक्षिणा । भद्रत: । न: । अनेन । दत्ता । सुऽदुघा । वय:ऽधा: । यौवने । जीवान् । उपऽपृञ्चती । जरा । पितृऽभ्य: । उपऽसंपरानयात् । इमान् ॥४.५०॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 50
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५०−(इयम्) (आ अगन्) आगमत् (दक्षिणा) प्रतिष्ठा। गौरवम् (भद्रतः) कल्याणात् (नः) अस्मान् (अनेन) सुकर्मणा (दत्ता) (सुदुघा) बहुदोग्ध्री गौर्यथा (वयोधाः) बलदायिका (यौवने) पूर्णबलवत्त्वे (जीवान्) जीवनवतः पुरुषार्थिनः पुरुषान् (उपपृञ्चती)संयोजयन्ती (जरा) जरा स्तुतिर्जरतेः स्तुतिकर्मणः-निरु० १०।८। प्रशंसा (पितृभ्यः) तादर्थ्ये चतुर्थी। पालकेभ्यः (उपसंपराणयात्) उप+सम्+परा+नयात्।प्राधान्येन सम्यग् नयतु प्रापयतु (इमाम्) प्रसिद्धान् ॥
इस भाष्य को एडिट करें