Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 12
    सूक्त - यम, मन्त्रोक्त देवता - महाबृहती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    शम॒ग्नयः॒समि॑द्धा॒ आ र॑भन्तां प्राजाप॒त्यं मेध्यं॑ जा॒तवे॑दसः। शृ॒तं कृ॒ण्वन्त॑ इ॒हमाव॑ चिक्षिपन् ॥

    स्वर सहित पद पाठ

    शम् । अ॒ग्नय॑: । सम्ऽइ॑ध्दा: । आ । र॒भ॒न्ता॒म् । प्रा॒जा॒ऽप॒त्यम् । मेध्य॑म् । जा॒तऽवे॑दस: । शृ॒तम् । कृ॒ण्वन्त॑: । इ॒ह । मा । अव॑ । चि॒क्षि॒पा॒न् ॥४.१२॥


    स्वर रहित मन्त्र

    शमग्नयःसमिद्धा आ रभन्तां प्राजापत्यं मेध्यं जातवेदसः। शृतं कृण्वन्त इहमाव चिक्षिपन् ॥

    स्वर रहित पद पाठ

    शम् । अग्नय: । सम्ऽइध्दा: । आ । रभन्ताम् । प्राजाऽपत्यम् । मेध्यम् । जातऽवेदस: । शृतम् । कृण्वन्त: । इह । मा । अव । चिक्षिपान् ॥४.१२॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 12

    टिप्पणीः - १२−(शम्) सुखेन (अग्नयः) पूर्वोक्तपूर्वाग्न्यादयः (समिद्धाः) सम्यक् प्रकाशिताः (आ) समन्तात् (रभन्ताम्) रभ राभस्ये, औत्सुक्ये। रभसो महन्नाम-निघ० ३।३। उत्सुकमुत्साहिनंकुर्वन्तु (प्राजापत्यम्) प्रजापतिः परमात्मा देवता यस्य तम् (मेध्यम्) मेधृमेधाहिंसनयोः-ण्यत्। पवित्रम् (जातवेदसः) उत्पन्नपदार्थेषु विद्यमानाः (शृतम्)परिपक्वम्। दृढस्वभावम् (कृण्वन्तः) कुर्वन्तः (मा अव चिक्षिपन्) अ० १८।२।४।क्षिप क्षेपणे-णिचि लुङ्। अधः क्षेपणं मा कुर्वन्तु ॥

    इस भाष्य को एडिट करें
    Top