Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 26
सूक्त - यम, मन्त्रोक्त
देवता - विराट् उपरिष्टाद् बृहती
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
यास्ते॑ धा॒नाअ॑नुकि॒रामि॑ ति॒लमि॑श्राः स्व॒धाव॑तीः। तास्ते॑ सन्तू॒द्भ्वीःप्र॒भ्वीस्तास्ते॑ य॒मो राजानु॑ मन्यताम् ॥
स्वर सहित पद पाठया: । ते॒ । धा॒ना: । अ॒नु॒ऽकि॒रामि । ति॒लऽमि॑श्रा: । स्व॒धाऽव॑ती: । ता: । ते॒ । स॒न्तु॒ । उ॒त्ऽभ्वी: । प्र॒ऽभ्वी: । ता: । ते॒ । य॒म: । राजा॑ । अनु॑ । म॒न्य॒ता॒म् ॥४.२६॥
स्वर रहित मन्त्र
यास्ते धानाअनुकिरामि तिलमिश्राः स्वधावतीः। तास्ते सन्तूद्भ्वीःप्रभ्वीस्तास्ते यमो राजानु मन्यताम् ॥
स्वर रहित पद पाठया: । ते । धाना: । अनुऽकिरामि । तिलऽमिश्रा: । स्वधाऽवती: । ता: । ते । सन्तु । उत्ऽभ्वी: । प्रऽभ्वी: । ता: । ते । यम: । राजा । अनु । मन्यताम् ॥४.२६॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 26
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २७−(याः) (ते) तुभ्यम् (धानाः) दधातेर्नप्रत्ययः, टाप्। सुसंस्कृतपौष्टिकपदार्थान् (अनुकिरामि) आनुकूल्येन क्षिपामि प्रसरामि (तिलमिश्राः) तिलैर्मिश्रिताः (स्वधावतीः) उत्तमान्नयुक्ताः (ताः) (सन्तु) (उद्भ्वीः) उद्भ्व्यः। उदयंभावयित्र्यः। अन्यत् पूर्ववत्-अ० १८।३।६९ ॥
इस भाष्य को एडिट करें