Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 52
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    एदं ब॒र्हिर॑सदो॒मेध्यो॑ऽभूः॒ प्रति॑ त्वा जानन्तु पि॒तरः॒ परे॑तम्। य॑थाप॒रु त॒न्वं संभ॑रस्व गात्राणि ते॒ ब्रह्म॑णा कल्पयामि ॥

    स्वर सहित पद पाठ

    आ । इ॒दम् । ब॒र्हि: । अ॒स॒द॒: । मेध्य॑: । अ॒भू॒: । प्रति॑ । त्वा॒ । जा॒न॒न्तु॒ । पि॒तर॑: । परा॑ऽइतम् । य॒था॒ऽप॒रु । त॒न्व॑म् । सम् । भ॒र॒स्व॒ । गात्रा॑णि । ते॒ । ब्रह्म॑णा । क॒ल्प॒या॒मि॒ ॥४.५२॥


    स्वर रहित मन्त्र

    एदं बर्हिरसदोमेध्योऽभूः प्रति त्वा जानन्तु पितरः परेतम्। यथापरु तन्वं संभरस्व गात्राणि ते ब्रह्मणा कल्पयामि ॥

    स्वर रहित पद पाठ

    आ । इदम् । बर्हि: । असद: । मेध्य: । अभू: । प्रति । त्वा । जानन्तु । पितर: । पराऽइतम् । यथाऽपरु । तन्वम् । सम् । भरस्व । गात्राणि । ते । ब्रह्मणा । कल्पयामि ॥४.५२॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 52

    टिप्पणीः - ५२−(इदम्)दृश्यमानम् (बर्हिः) उच्चासनम् (आ असदः) आरूढवानसि (मेध्यः) पवित्रः (अभूः) (प्रति) प्रत्यक्षम् (त्वा) त्वाम् (जानन्तु) विदन्तु (पितरः) (परेतम्) पराप्राधान्यमितं प्राप्तम् (यथापरु) परौ परौ ग्रन्थौ ग्रन्थौ (तन्वम्) तनूम्।उपकारशक्तिम् (सम्) सम्यक् (भरस्व) धारय (गात्राणि) अङ्गानि (ते) तव (ब्रह्मणा)वेदज्ञानेन (कल्पयामि) समर्थयामि ॥

    इस भाष्य को एडिट करें
    Top