Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 31
    सूक्त - यम, मन्त्रोक्त देवता - अनुष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    ए॒तत्ते॑ दे॒वःस॑वि॒ता वासो॑ ददाति॒ भर्त॑वे। तत्त्वं॑ य॒मस्य॒ राज्ये॒ वसा॑नस्ता॒र्प्यं चर॥

    स्वर सहित पद पाठ

    ए॒तत् । ते॒ । दे॒व: । स॒वि॒ता । वास॑: । द॒दा॒ति॒ । भर्त॑वे । तत् । त्वम् । य॒मस्य॑ । राज्ये॑ । वसा॑न: । ता॒र्प्य॑म् । च॒र॒ ॥४.३१॥


    स्वर रहित मन्त्र

    एतत्ते देवःसविता वासो ददाति भर्तवे। तत्त्वं यमस्य राज्ये वसानस्तार्प्यं चर॥

    स्वर रहित पद पाठ

    एतत् । ते । देव: । सविता । वास: । ददाति । भर्तवे । तत् । त्वम् । यमस्य । राज्ये । वसान: । तार्प्यम् । चर ॥४.३१॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 31

    टिप्पणीः - ३१−(ते) तुभ्यम् (देवः) व्यवहारकुशलः (सविता) कर्मप्रेरकः।वस्त्रकारः। शिल्पी (वासः) वस्त्रम् (ददाति) प्रयच्छति (भर्तवे)भर्त्तुमाच्छादयितुम् (तत्) वस्त्रम् (त्वम्) हे मनुष्य (यमस्य) न्यायकारिणोराज्ञः (राज्ये) जनपदे (वसानः) आच्छादयन् (तार्प्यम्) तृप प्रीणने-ण्यत्।तृप्तिकरम् (चर) विचर ॥

    इस भाष्य को एडिट करें
    Top