Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 7
सूक्त - यम, मन्त्रोक्त
देवता - भुरिक् त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ती॒र्थैस्त॑रन्तिप्र॒वतो॑ म॒हीरिति॑ यज्ञ॒कृतः॑ सु॒कृतो॒ येन॒ यन्ति॑। अत्रा॑दधु॒र्यज॑मानायलो॒कं दिशो॑ भू॒तानि॒ यदक॑ल्पयन्त ॥
स्वर सहित पद पाठती॒र्थै: । त॒र॒न्ति॒ । प्र॒ऽवत॑: । म॒ही: । इति॑ । य॒ज्ञ॒ऽकृत॑: । सु॒ऽकृत॑: । येन॑ । यन्ति॑ । अत्र॑ । अ॒द॒धु॒: । यज॑मानाय । लो॒कम् । दिश॑: । भू॒तानि॑ । यत् । अक॑ल्पयन्त ॥४.७॥
स्वर रहित मन्त्र
तीर्थैस्तरन्तिप्रवतो महीरिति यज्ञकृतः सुकृतो येन यन्ति। अत्रादधुर्यजमानायलोकं दिशो भूतानि यदकल्पयन्त ॥
स्वर रहित पद पाठतीर्थै: । तरन्ति । प्रऽवत: । मही: । इति । यज्ञऽकृत: । सुऽकृत: । येन । यन्ति । अत्र । अदधु: । यजमानाय । लोकम् । दिश: । भूतानि । यत् । अकल्पयन्त ॥४.७॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(तीर्थैः) पातॄतुदिवचि०। उ० २।७। तॄ तरणे-थक्। तरणसाधनैःशास्त्रैर्घट्टादिभिर्वा (तरन्ति) अतिक्रामन्ति (प्रवतः) अ० १८।१।४९।प्रकृष्टगतियुक्ताः (महीः) महतीर्विपत्तीर्नदीर्वा (इति) अवधारणे (यज्ञकृतः)यज्ञस्य कर्तारः (सुकृतः) पुण्यकर्माणः (येन) प्रकारेण (यन्ति) गच्छन्ति (अदधुः)दत्तवन्तः (यजमानाय) (लोकम्) स्थानम् (दिशः) प्राच्याद्याः (भूतानि) सत्तावन्तःप्राणिनः (यत्) यदा (अकल्पयन्त) समर्था अकुर्वन्त ॥
इस भाष्य को एडिट करें