Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 36
सूक्त - यम, मन्त्रोक्त
देवता - भुरिक् त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
स॒हस्र॑धारंश॒तधा॑र॒मुत्स॒मक्षि॑तं व्य॒च्यमा॑नं सलि॒लस्य॑ पृ॒ष्ठे। ऊर्जं॒दुहा॑न॒मन॑पस्पुरन्त॒मुपा॑सते पि॒तरः॑ स्व॒धाभिः॑ ॥
स्वर सहित पद पाठस॒हस्र॑ऽधारम् । श॒तऽधा॑रम् । उत्स॑म् । अक्षि॑तम् । वि॒ऽअ॒च्यमा॑नम् । स॒लि॒लस्य॑ । पृ॒ष्ठे । ऊर्ज॑म् । दुहा॑नम् । अ॒न॒प॒ऽस्फुर॑न्तम् । उप॑ । आ॒स॒ते॒ । पि॒तर॑: । स्व॒धाभि॑: ॥४.३६॥
स्वर रहित मन्त्र
सहस्रधारंशतधारमुत्समक्षितं व्यच्यमानं सलिलस्य पृष्ठे। ऊर्जंदुहानमनपस्पुरन्तमुपासते पितरः स्वधाभिः ॥
स्वर रहित पद पाठसहस्रऽधारम् । शतऽधारम् । उत्सम् । अक्षितम् । विऽअच्यमानम् । सलिलस्य । पृष्ठे । ऊर्जम् । दुहानम् । अनपऽस्फुरन्तम् । उप । आसते । पितर: । स्वधाभि: ॥४.३६॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 36
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३६−(सहस्रधारम्) सहस्रप्रकारेण धारकंपोषकम् (शतधारम्) असंख्यातदुग्धधारोपेतम् (उत्सम्) स्रोतः सदृशं गोरूपपदार्थम् (अक्षितम्) अक्षीणम् (व्यच्यमानम्) अञ्चु गतौ याचने च-शानच्। वि विविधं प्रसरन्तम् (सलिलस्य) समुद्रस्य (पृष्ठे) उपरिभागे (ऊर्जम्) बलकरं रसं दुग्धादिकम् (दुहानम्) प्रयच्छन्तम् (अनपस्फुरन्तम्) न कदापि संचलन्तम् (उपासते) सेवन्ते (पितरः) पित्र्यादिमान्याः (स्वधाभिः) आत्मधारणशक्तिभिः ॥
इस भाष्य को एडिट करें