Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 8
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    अङ्गि॑रसा॒मय॑नं॒पूर्वो॑ अ॒ग्निरा॑दि॒त्याना॒मय॑नं॒ गार्ह॑पत्यो॒ दक्षि॑णाना॒मय॑नं दक्षिणा॒ग्निः। म॑हि॒मान॑म॒ग्नेर्विहि॑तस्य॒ ब्रह्म॑णा॒ सम॑ङ्गः॒ सर्व॒ उप॑ याहि श॒ग्मः॥

    स्वर सहित पद पाठ

    अङ्ग‍ि॑रसाम् । अय॑नम् । पूर्व॑: । अ॒ग्नि । आ॒दि॒त्याना॑म् । अय॑नम् । गार्ह॑ऽपत्य । दक्षि॑णानाम् । अय॑नम् । द॒क्षि॒ण॒ऽअ॒ग्नि: । म॒हि॒मान॑म् । अ॒ग्ने: । विऽहि॑तस्य । ब्रह्म॑णा । सम्ऽअ॑ङ्ग: । सर्व॑: । उप॑ । या॒हि॒ । श॒ग्म: ॥४.८॥


    स्वर रहित मन्त्र

    अङ्गिरसामयनंपूर्वो अग्निरादित्यानामयनं गार्हपत्यो दक्षिणानामयनं दक्षिणाग्निः। महिमानमग्नेर्विहितस्य ब्रह्मणा समङ्गः सर्व उप याहि शग्मः॥

    स्वर रहित पद पाठ

    अङ्ग‍िरसाम् । अयनम् । पूर्व: । अग्नि । आदित्यानाम् । अयनम् । गार्हऽपत्य । दक्षिणानाम् । अयनम् । दक्षिणऽअग्नि: । महिमानम् । अग्ने: । विऽहितस्य । ब्रह्मणा । सम्ऽअङ्ग: । सर्व: । उप । याहि । शग्म: ॥४.८॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 8

    टिप्पणीः - ८−(अङ्गिरसाम्) महर्षीणाम् (अयनम्) मार्गः (पूर्वः) पूर्वायां दिशि वर्तमानः (अग्निः) होमाग्निः (आदित्यानाम्) अखण्डब्रह्मचारिणाम् (अयनम्) मार्गम् (गार्हपत्यः) गृहपति−ञ्य।गृहिपतिना संयुक्तो यज्ञाग्निः (दक्षिणानाम्) द्रुदक्षिभ्यामिनन्। उ० २।५०। दक्षवृद्धौ शीघ्रार्थे च-इनन्। दक्षाणां कार्यकुशलानाम् (दक्षिणाग्निः) दक्षिणादिशिवर्तमानोऽग्निः (महिमानम्) महत्त्वम् (अग्नेः) भौतिकस्य (विहितस्य) यथाविधिस्थापितस्य (ब्रह्मणा) चतुर्वेदज्ञेन (समङ्गः) संहतावयवः। दृढाङ्गः (सर्वः)समस्तः। समाहितचित्तः (उप याहि) सर्वथा प्राप्नुहि (शग्मः) युजिरुचितिजां कुश्च।उ० १।१४६। शक्लृ शक्तौ-मक् कस्य गः। शक्तः। समर्थः ॥

    इस भाष्य को एडिट करें
    Top