Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 89
    सूक्त - चन्द्रमा देवता - पञ्चपदा पथ्यापङ्क्ति छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    च॒न्द्रमा॑अ॒प्स्वन्तरा सु॑प॒र्णो धा॑वते दि॒वि। न वो॑ हिरण्यनेमयः प॒दं वि॑न्दन्तिविद्युतो वि॒त्तं मे॑ अ॒स्य रो॑दसी ॥

    स्वर सहित पद पाठ

    च॒न्द्रमा॑: । अ॒प्ऽसु । अ॒न्त:। आ । सु॒ऽप॒र्ण: । धा॒व॒ते॒ । दि॒वि । न । व॒:। हि॒र॒ण्य॒ऽने॒म॒य॒: । प॒दम् । वि॒न्द॒न्ति॒ । वि॒ऽद्यु॒त॒: । वि॒त्तम् । मे॒ । अ॒स्य॒ । रो॒द॒सी॒ इति॑ ॥४.८९॥


    स्वर रहित मन्त्र

    चन्द्रमाअप्स्वन्तरा सुपर्णो धावते दिवि। न वो हिरण्यनेमयः पदं विन्दन्तिविद्युतो वित्तं मे अस्य रोदसी ॥

    स्वर रहित पद पाठ

    चन्द्रमा: । अप्ऽसु । अन्त:। आ । सुऽपर्ण: । धावते । दिवि । न । व:। हिरण्यऽनेमय: । पदम् । विन्दन्ति । विऽद्युत: । वित्तम् । मे । अस्य । रोदसी इति ॥४.८९॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 89

    टिप्पणीः - ८९−(चन्द्रमाः) चन्द्रलोकः (अप्सु) स्वमण्डलस्थेषु जलेषु (अन्तः) मध्ये (आ) समन्तात् (सुपर्णः) धापॄवस्यज्यतिभ्यो नः। उ० ३।६। सु+पॄपालनपूरणयोः-न प्रत्ययः। सुष्ठु पूरयिता (धावते) शीघ्रं गच्छति (दिवि) सूर्यस्यप्रकाशे (न) निषेधे (वः) युष्माकम् (हिरण्यनेमयः) हर्यतेः कन्यन् हिर्च। उ०५।४४। हर्य गतिकान्त्योः-कन्यन्। नियो मिः। उ० ४।४३। णीञ् प्रापणे-मि प्रत्ययः।हिरण्ये कमनीये प्रकाशस्वरूपे परमात्मनि नेमिः सीमा येषां ते तथाभूतास्तत्सम्बुद्धौ (पदम्) स्थितिम् (विन्दन्ति) लभन्ते (विद्युतः) वि+द्युतदीप्तौ-क्विप्। हे विविधप्रकाशमानलोकाः (वित्तम्) जानीतम्। ज्ञानं कुरुतम् (मे)मम (अस्य) वचनस्य (रोदसी) हे द्यावापृथिव्याविव प्रजे स्त्रीपुरुषौ ॥

    इस भाष्य को एडिट करें
    Top