Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 49
सूक्त - यम, मन्त्रोक्त
देवता - अनुष्टुब्गर्भा त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
आ प्रच्य॑वेथा॒मप॒ तन्मृ॑जेथां॒ यद्वा॑मभि॒भा अत्रो॒चुः। अ॒स्मादेत॑म॒घ्न्यौतद्वशी॑यो दा॒तुः पि॒तृष्वि॒हभो॑जनौ॒ मम॑ ॥
स्वर सहित पद पाठआ । प्र । च्य॒वे॒था॒म् । अप॑ । तत् । मृ॒जे॒था॒म् । यत् । वा॒म् । अभि॒ऽभा: । अत्र॑ । ऊ॒चु: । अ॒स्मात् । आ । इ॒त॒म् । अघ्न्यौ । तत् । वशी॑य: । दा॒तु: । पि॒तृषु॑ । इ॒हऽभो॑जनौ । मम॑ ॥४.४९॥
स्वर रहित मन्त्र
आ प्रच्यवेथामप तन्मृजेथां यद्वामभिभा अत्रोचुः। अस्मादेतमघ्न्यौतद्वशीयो दातुः पितृष्विहभोजनौ मम ॥
स्वर रहित पद पाठआ । प्र । च्यवेथाम् । अप । तत् । मृजेथाम् । यत् । वाम् । अभिऽभा: । अत्र । ऊचु: । अस्मात् । आ । इतम् । अघ्न्यौ । तत् । वशीय: । दातु: । पितृषु । इहऽभोजनौ । मम ॥४.४९॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 49
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४९−(आ) समन्तात् (प्र च्यवेथाम्)च्युङ् गतौ। प्रकर्षेण गच्छतम् (तत्) पापम् (अप मृजेथाम्) अप मार्जयतम्। शोधयतम् (यत्) पापम् (वाम्) युवाभ्याम् (अभिभाः) अ० १।२०।१। अभि भा दीप्तौ-क्विप्।आभिमुख्येन दीप्यमाना विपत्तयः (अत्र) अस्मिन् स्थाने (ऊचुः) उदितवत्यः।प्रकटितवत्यः (अस्मात्) पापात् पृथग् भूत्वा (एतम्) आगच्छतम् (अघ्न्यौ) नञ्+हनहिंसागत्योः-यक्। अहिंसकौ (तत्) सुकर्म (वशीयः) वशितृ-ईयसुन्, तृचो लोपः।वशितृतरं सुकर्म (दातुः) दानशीलस्य (पितृषु) (इहभोजनौ) इह अस्मिन् स्थाने भोजनंपोषणं ययोस्तौ (मम) ॥
इस भाष्य को एडिट करें