Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 29
    सूक्त - यम, मन्त्रोक्त देवता - जगती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    श॒तधा॑रंवा॒युम॒र्कं स्व॒र्विदं॑ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते र॒यिम्। ये पृ॒णन्ति॒ प्रच॒ यच्छ॑न्ति सर्व॒दा ते दु॑ह्रते॒ दक्षि॑णां स॒प्तमा॑तरम् ॥

    स्वर सहित पद पाठ

    श॒तऽधा॑रम् । वा॒युम् । अ॒र्कम् । स्व॒:ऽविद॑म् । नृ॒ऽचक्ष॑स: । ते । अ॒भि । च॒क्ष॒ते॒ । र॒यिम् । ये । पृ॒णन्ति॑ । प्र । च॒ । यच्छ॑न्ति । स॒र्व॒दा । ते । दु॒ह्न॒ते॒ । दक्षि॑णाम् । स॒प्तऽमा॑तरम् ॥४.२९॥


    स्वर रहित मन्त्र

    शतधारंवायुमर्कं स्वर्विदं नृचक्षसस्ते अभि चक्षते रयिम्। ये पृणन्ति प्रच यच्छन्ति सर्वदा ते दुह्रते दक्षिणां सप्तमातरम् ॥

    स्वर रहित पद पाठ

    शतऽधारम् । वायुम् । अर्कम् । स्व:ऽविदम् । नृऽचक्षस: । ते । अभि । चक्षते । रयिम् । ये । पृणन्ति । प्र । च । यच्छन्ति । सर्वदा । ते । दुह्नते । दक्षिणाम् । सप्तऽमातरम् ॥४.२९॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 29

    टिप्पणीः - २९−(शतधारम्) बहुप्रकारेण धारकम् (वायुम्)सर्वव्यापकम् (अर्कम्) अर्चनीयम् (स्वर्विदम्) सुखस्य लम्भकं परमात्मानम् (नृचक्षसः) मनुष्याणां द्रष्टारः (ते) प्रसिद्धाः (अभि) अभिगत्य। सर्वतः प्राप्य (चक्षते) पश्यन्ति (रयिम्) धनम् (ये) पुरुषार्थिनः (पृणन्ति) पॄ पालनपूरणयोः।पूरयन्ति (च) (प्रयच्छन्ति) ददति सुपात्रेभ्यः (सर्वदा) (ते) पुरुषाः (दुह्रते)रुडागमः। दुहते। प्राप्नुवन्ति (दक्षिणाम्) वृद्धिक्रियाम्। प्रतिष्ठाम्।सत्क्रियाम् (सप्तमातरम्) म० २८। सप्तसंख्याकानि शीर्षण्यच्छ्रिद्राणि मातॄणिनिर्मातॄणि मातृभूतानि वा यस्यास्तां तथाभूताम् ॥

    इस भाष्य को एडिट करें
    Top