Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 39
    सूक्त - यम, मन्त्रोक्त देवता - पुरोविराट् आस्तार पङ्क्ति छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    पु॒त्रंपौत्र॑मभित॒र्पय॑न्ती॒रापो॒ मधु॑मतीरि॒माः। स्व॒धां पि॒तृभ्यो॑ अ॒मृतं॒दुहा॑ना॒ आपो॑ दे॒वीरु॒भयां॑स्तर्पयन्तु ॥

    स्वर सहित पद पाठ

    पु॒त्रम् । पौत्र॑म् । अ॒भि॒ऽत॒र्पय॑न्ती: । आप॑: । मधु॑ऽमती: । इ॒मा: । स्व॒धाम् । पि॒तृऽभ्य॑: । अ॒मृत॑म् । दुहा॑ना: । आप॑: । उ॒भया॑न् । त॒र्प॒य॒न्तु॒ ॥ ४.३९॥


    स्वर रहित मन्त्र

    पुत्रंपौत्रमभितर्पयन्तीरापो मधुमतीरिमाः। स्वधां पितृभ्यो अमृतंदुहाना आपो देवीरुभयांस्तर्पयन्तु ॥

    स्वर रहित पद पाठ

    पुत्रम् । पौत्रम् । अभिऽतर्पयन्ती: । आप: । मधुऽमती: । इमा: । स्वधाम् । पितृऽभ्य: । अमृतम् । दुहाना: । आप: । उभयान् । तर्पयन्तु ॥ ४.३९॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 39

    टिप्पणीः - ३९−(पुत्रम्) आत्मजम् (पौत्रम्) पुत्रस्य पुत्रम् (अभितर्पयन्तीः) सर्वतः संतोषयन्त्यः (आपः) आप्लृ व्याप्तौ-क्विप्। आपःपदनाम-निघ० ५।३। आपः=आपनाः, आपनानि च-निरु० १२।३७। प्राप्तव्या गावः (मधुमतीः)मधुरसेन घृतदुग्धादिना युक्ताः (इमाः) दृश्यमानाः (स्वधाम्) आत्मधारणशक्तिम् (पितृभ्यः) पालकेभ्यो विद्वद्भ्यः (अमृतम्) अमरणम्। जीवनम् (दुहानाः)प्रयच्छन्त्यः (आपः) प्राप्तव्याः गावः (देवीः) देव्यः। शुभगुणवत्यः (उभयान्)उभयपक्षान् स्त्रीपुरुषान् (तर्पयन्तु) तोषयन्तु। वर्धयन्तु ॥

    इस भाष्य को एडिट करें
    Top