Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 56
सूक्त - यम, मन्त्रोक्त
देवता - ककुम्मती अनुष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
इ॒दं हिर॑ण्यंबिभृहि॒ यत्ते॑ पि॒ताबि॑भः पु॒रा। स्व॒र्गं य॒तः पि॒तुर्हस्तं॒ निर्मृ॑ड्ढि॒दक्षि॑णम् ॥
स्वर सहित पद पाठइ॒दम् । हिर॑ण्यम् । बि॒भृ॒हि॒ । यत् । ते॒ । पि॒ता । अबि॑भ: । पु॒रा । स्व॒:ऽगम् । य॒त: । पि॒तु: । हस्त॑म् नि: । मृ॒ड्ढि॒ । दक्षि॑णम् ॥४.५६॥
स्वर रहित मन्त्र
इदं हिरण्यंबिभृहि यत्ते पिताबिभः पुरा। स्वर्गं यतः पितुर्हस्तं निर्मृड्ढिदक्षिणम् ॥
स्वर रहित पद पाठइदम् । हिरण्यम् । बिभृहि । यत् । ते । पिता । अबिभ: । पुरा । स्व:ऽगम् । यत: । पितु: । हस्तम् नि: । मृड्ढि । दक्षिणम् ॥४.५६॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 56
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५६−(इदम्)उपस्थितम् (हिरण्यम्) सुवर्णम् (बिभृहि) धारय (यत्) यथा (ते) तव (पिता) जनकः (अबिभः) भृतवान्। धारितवान् (पुरा) पूर्वम् (स्वर्गम्) सुखप्रापकं पदम् (यतः) इण्गतौ-शतृ। गच्छतः। प्राप्नुवतः (पितुः) जनकस्य (हस्तम्) करम् (निः) निश्चयेन (मृड्ढि) अ० ११।१।२९। मृजू शौचालङ्कारयोः-लोट्, अदादिः। मार्जय। अलङ्कुरु (दक्षिणम्) असव्यम्। उदारम्। कार्यकुशलम् ॥
इस भाष्य को एडिट करें