Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 60
    सूक्त - यम, मन्त्रोक्त देवता - भुरिक् त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    प्र वाए॒तीन्दु॒रिन्द्र॑स्य॒ निष्कृ॑तिं॒ सखा॒ सख्यु॒र्न प्र मि॑नाति संगि॒रः। मर्य॑इव॒ योषाः॒ सम॑र्षसे॒ सोमः॑ क॒लशे॑ श॒तया॑मना प॒था ॥

    स्वर सहित पद पाठ

    प्र । वै । ए॒ति॒ । इन्दु॑: । इन्द्र॑स्य । नि:ऽकृ॑तिम् । सखा॑ । सख्यु॑: । न । प्र । मि॒ना॒ति॒ । स॒म्ऽगि॒र: । मर्य॑:ऽइव । योषा॑: । सम् । अ॒र्ष॒से॒ । सोम॑: । क॒लशे॑ । श॒तऽया॑मना । प॒था ॥४.६०॥


    स्वर रहित मन्त्र

    प्र वाएतीन्दुरिन्द्रस्य निष्कृतिं सखा सख्युर्न प्र मिनाति संगिरः। मर्यइव योषाः समर्षसे सोमः कलशे शतयामना पथा ॥

    स्वर रहित पद पाठ

    प्र । वै । एति । इन्दु: । इन्द्रस्य । नि:ऽकृतिम् । सखा । सख्यु: । न । प्र । मिनाति । सम्ऽगिर: । मर्य:ऽइव । योषा: । सम् । अर्षसे । सोम: । कलशे । शतऽयामना । पथा ॥४.६०॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 60

    टिप्पणीः - ६०−(प्र) प्रकर्षेण (वै) निश्चयेन (एति)प्राप्नोति (इन्दुः) ऐश्वर्यवान् जीवात्मा (इन्द्रस्य) परमैश्वर्यवतःपरमेश्वरस्य (निष्कृतिम्) निस्तारशक्तिम्। निर्मुक्तिम् (सखा) सुहृद्वज्जीवात्मा (सख्युः) सर्वमित्रस्य परमात्मनः (न) निषेधे (प्र) (मिनाति) मीञ् हिंसायाम्।मीनातेर्निगमे। पा० ७।३।८१। इति ह्रस्वत्वम्। हिनस्ति (संगिरः) गॄविज्ञापने-क्विप्। संगरान्। समीचीनवचननानि (मर्यः) मनुष्यः (इव) यथा (योषाः) सुपांसुपो भवन्ति। वा० पा० ७।१।३९। एकवचनस्य बहुवचनम्। योषाम्। सेवनीयां स्त्रियम् (सम्) सम्यक् (अर्षसे) ऋषी गतौ, भौवादिकः। प्राप्नोषि (सोमः) सोमः सूर्यःप्रसवनात्, सोम आत्माऽप्येतस्मादेव-निरु० १४।१२। प्रेरको जीवात्मा (कलशे) घटरूपेहृदये (शतयामना) अल्लोपोऽनः। पा० ६।४।१३४। इति प्राप्तस्यअकारलोपस्याभावश्छान्दसः। शतयाम्ना। बहुगतियुक्तेन (पथा) मार्गेण ॥

    इस भाष्य को एडिट करें
    Top