Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 9
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    पूर्वो॑अ॒ग्निष्ट्वा॑ तपतु॒ शं पु॒रस्ता॒च्छं प॒श्चात्त॑पतु॒ गार्ह॑पत्यः।द॑क्षिणा॒ग्निष्टे॑ तपतु॒ शर्म॒ वर्मो॑त्तर॒तो म॑ध्य॒तोअ॒न्तरि॑क्षाद्दि॒शोदि॑शो अग्ने॒ परि॑ पाहि घो॒रात् ॥

    स्वर सहित पद पाठ

    पूर्व॑: । अ॒ग्नि: । त्वा॒ । त॒प॒तु॒ । शम‌् । पु॒रस्ता॑त् । शम् । प॒श्चात् । त॒प॒तु॒ । गार्ह॑ऽपत्य: । द॒क्षि॒ण॒ऽअ॒ग्नि: । ते॒ । त॒प॒तु॒ । शर्म॑ । वर्म॑ । उ॒त्त॒र॒त: । म॒ध्य॒त: । अ॒न्तर‍ि॑क्षात् । दि॒श:ऽदि॑श: । अ॒ग्ने॒ । परि॑ । पा॒हि॒। घो॒रात् ॥४.९॥


    स्वर रहित मन्त्र

    पूर्वोअग्निष्ट्वा तपतु शं पुरस्ताच्छं पश्चात्तपतु गार्हपत्यः।दक्षिणाग्निष्टे तपतु शर्म वर्मोत्तरतो मध्यतोअन्तरिक्षाद्दिशोदिशो अग्ने परि पाहि घोरात् ॥

    स्वर रहित पद पाठ

    पूर्व: । अग्नि: । त्वा । तपतु । शम‌् । पुरस्तात् । शम् । पश्चात् । तपतु । गार्हऽपत्य: । दक्षिणऽअग्नि: । ते । तपतु । शर्म । वर्म । उत्तरत: । मध्यत: । अन्तर‍िक्षात् । दिश:ऽदिश: । अग्ने । परि । पाहि। घोरात् ॥४.९॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 9

    टिप्पणीः - ९−(पूर्वः) पूर्वदिशि दीप्यमानः (अग्निः) यज्ञाग्निः (त्वा) (तपतु) तपऐश्वर्ये, अन्तर्गतण्यर्थः। ऐश्वर्यवन्तं प्रतापिनं करोतु (शम्) सुखेन (पुरस्तात्) अग्रतः (शम्) (पश्चात्) (तपतु) (गार्हपत्यः) गृहपतिनासंयुक्तोऽग्निः (ते) तुभ्यम् (शर्म) शरणरूपः सन् (वर्म) कवचरूपः सन् (उत्तरतः)उपरिदेशात् (मध्यतः) मध्यदेशात् (अन्तरिक्षात्) आकाशात् (दिशोदिशः) प्रत्येकदिशःसकाशात् (अग्ने) हे सर्वव्यापक परमात्मन् (परि) सर्वथा (पाहि) रक्ष (घोरात्) घुरभीमार्थशब्दयोः-अच्। भयानकात् कष्टात् ॥

    इस भाष्य को एडिट करें
    Top