Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 16
सूक्त - यम, मन्त्रोक्त
देवता - त्रिपदा भुरिक् महाबृहती
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
अ॑पू॒पवा॑न्क्षी॒रवां॑श्च॒रुरेह सी॑दतु। लो॑क॒कृतः॑ पथि॒कृतो॑ यजामहे॒ येदे॒वानां॑ हु॒तभा॑गा इ॒ह स्थ ॥
स्वर सहित पद पाठअ॒पू॒पऽवा॑न् । क्षी॒रऽवा॑न् । च॒रु: । आ । इ॒ह । सी॒द॒तु॒ । लो॒क॒ऽकृत॑: । प॒थि॒ऽकृत॑: । य॒जा॒म॒हे॒ । ये । दे॒वाना॑म् । हु॒तऽभा॑गा: । इ॒ह । स्थ ॥ ४.१६॥
स्वर रहित मन्त्र
अपूपवान्क्षीरवांश्चरुरेह सीदतु। लोककृतः पथिकृतो यजामहे येदेवानां हुतभागा इह स्थ ॥
स्वर रहित पद पाठअपूपऽवान् । क्षीरऽवान् । चरु: । आ । इह । सीदतु । लोकऽकृत: । पथिऽकृत: । यजामहे । ये । देवानाम् । हुतऽभागा: । इह । स्थ ॥ ४.१६॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 16
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १६−(अपूपवान्) पानीविशिभ्यः पः। उ० ३।२३। नञ्+पूयीविशरणे दुर्गन्धे च-प प्रत्ययः, यलोपः। सुसंस्कृतभोजनपदार्थयुक्तः (क्षीरवान्)दुग्धवान् (चरुः) भृमृशीङ्तॄचरि०। उ० १।७। चर गतिभक्षणयोः-उ प्रत्ययः।चरुर्मृच्चयो भवति चरतेर्वा समुच्चरन्त्यस्मादापः-निरु० ६।११। चरुर्मेघनाम-निघ०१।१०। यज्ञपाकः (इह) अत्र वेद्याम् (आ सीदतु) आ गच्छतु। तिष्ठतु। अन्यत्पूर्ववत्-अ० १८।३।२५ ॥
इस भाष्य को एडिट करें