Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 48
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
पृ॑थि॒वीं त्वा॑पृथि॒व्यामा वे॑शयामि दे॒वो नो॑ धा॒ता प्र ति॑रा॒त्यायुः॑। परा॑परैतावसु॒विद्वो॑ अ॒स्त्वधा॑ मृ॒ताः पि॒तृषु॒ सं भ॑वन्तु ॥
स्वर सहित पद पाठपृ॒थि॒वीम् । त्वा॒ । पृ॒थि॒व्याम् । आ । वे॒श॒या॒मि॒ । दे॒व: । न॒: । धा॒ता । प्र । त॒र॒ति॒ । आयु॑: । परा॑ऽपरैता । व॒सु॒ऽवित् । व: । अ॒स्तु॒ । अध॑ । मृ॒ता: । पि॒तृषु॑ । सम् । भ॒व॒न्तु॒ ॥४.४८॥
स्वर रहित मन्त्र
पृथिवीं त्वापृथिव्यामा वेशयामि देवो नो धाता प्र तिरात्यायुः। परापरैतावसुविद्वो अस्त्वधा मृताः पितृषु सं भवन्तु ॥
स्वर रहित पद पाठपृथिवीम् । त्वा । पृथिव्याम् । आ । वेशयामि । देव: । न: । धाता । प्र । तरति । आयु: । पराऽपरैता । वसुऽवित् । व: । अस्तु । अध । मृता: । पितृषु । सम् । भवन्तु ॥४.४८॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 48
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४८−(पृथिवीम्) प्रख्याताम् (त्वा) त्वां प्रजां पुरुषं स्त्रियं वा (पृथिव्याम्) प्रख्यातायां विद्यायाम् (आवेशयामि) प्रवेशयामि (देवः)प्रकाशस्वरूपः (नः) अस्माकम् (धाता) पोषकः परमात्मा (प्र तिराति) तरतेर्लेट्।वर्धयतु (आयुः) जीवनम् (परापरैता) परा+परा+इण् गतौ-तृन्। अभ्यासे भूयांसमर्थंमन्यन्ते-निरु० १०।४२। अतिशयेन पराक्रमेण गन्ता (वसुवित्) विद्लृ लाभे-क्विप्।श्रेष्ठपदार्थानां लम्भयिता प्रापयिता (वः) युष्मभ्यम् (अध) अथ (मृताः)त्यक्तप्राणाः। निरुत्साहिनः (पितृषु) पालकेषु विद्वत्सु (सं भवन्तु)संभूतियुक्ताः समर्था भवन्तु ॥
इस भाष्य को एडिट करें