Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 66
सूक्त - यम, मन्त्रोक्त
देवता - त्रिपदा स्वराट् गायत्री
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
असौ॒ हा इ॒ह ते॒मनः॒ ककु॑त्सलमिव जा॒मयः॑। अ॒भ्येनं भूम ऊर्णुहि ॥
स्वर सहित पद पाठअ॒सौ । है । इ॒ह । ते॒ । मन॑: । ककु॑त्सलम्ऽइव । जा॒मय॑: । अ॒भि । ए॒न॒म् । भू॒मे॒ । ऊ॒र्णु॒हि॒ ॥४.६६॥
स्वर रहित मन्त्र
असौ हा इह तेमनः ककुत्सलमिव जामयः। अभ्येनं भूम ऊर्णुहि ॥
स्वर रहित पद पाठअसौ । है । इह । ते । मन: । ककुत्सलम्ऽइव । जामय: । अभि । एनम् । भूमे । ऊर्णुहि ॥४.६६॥
अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 66
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ६६−(असौ) पित्रादिः (है) निश्चयेन (इह) अत्र। अस्मासु (ते) तव (मनः)अन्तःकरणम् (ककुत्सलम्) क+कु कुङ् वा शब्दे-क्विप्, तुक्+षल गतौ-अच्। कस्यसुखस्य शब्दप्रापकं प्रियवाचं सन्तानम् (इव) यथा (जामयः) कुलस्त्रियः (अभि)सर्वतः (एनम्) पित्रादिकम् (भूमे) हे भूमितुल्य सर्वाधार विद्वन् (ऊर्णुहि)आच्छादय। सुखय ॥
इस भाष्य को एडिट करें