Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 14
    सूक्त - यम, मन्त्रोक्त देवता - भुरिक् त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    ई॑जा॒नश्चि॒तमारु॑क्षद॒ग्निं नाक॑स्य पृ॒ष्ठाद्दिव॑मुत्पति॒ष्यन्। तस्मै॒ प्रभा॑ति॒ नभ॑सो॒ ज्योति॑षीमान्त्स्व॒र्गः पन्थाः॑ सु॒कृते॑ देव॒यानः॑ ॥

    स्वर सहित पद पाठ

    ई॒जा॒न: । चि॒तम् । आ । अ॒रु॒क्ष॒त् । अ॒ग्निम् । नाक॑स्य । पृ॒ष्ठात् । दिव॑म् । उ॒त्ऽप॒ति॒ष्यन् । तस्मै॑ । प्र । भा॒ति॒। नभ॑स: । ज्योति॑षीऽमान् । स्व॒:ऽग: । पन्था॑ । सु॒ऽकृते॑ । दे॒व॒ऽयान॑: ॥४.१४॥


    स्वर रहित मन्त्र

    ईजानश्चितमारुक्षदग्निं नाकस्य पृष्ठाद्दिवमुत्पतिष्यन्। तस्मै प्रभाति नभसो ज्योतिषीमान्त्स्वर्गः पन्थाः सुकृते देवयानः ॥

    स्वर रहित पद पाठ

    ईजान: । चितम् । आ । अरुक्षत् । अग्निम् । नाकस्य । पृष्ठात् । दिवम् । उत्ऽपतिष्यन् । तस्मै । प्र । भाति। नभस: । ज्योतिषीऽमान् । स्व:ऽग: । पन्था । सुऽकृते । देवऽयान: ॥४.१४॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 14

    टिप्पणीः - १४−(ईजानः)समाप्तयज्ञः पुरुषः (चितम्) हवनपदार्थैः संचितम् (आ) समन्तात् (अरुक्षत्)प्रादुष्कृतवान् (अग्निम्) यज्ञाग्निम् (नाकस्य) अतिसुखस्य (पृष्ठात्)उपरिदेशात् (दिवम्) प्रकाशस्वरूपं परमात्मानम् (उत्पतिष्यन्)उत्पतितुमूर्ध्वंगन्तुमिच्छन् सन् (तस्मै) (प्र) प्रकर्षेण (भाति) दीप्यते (नभसः) निर्मलाकाशादित्यर्थः (ज्योतिषीमान्) ज्योतिष्-अर्शआद्यच्, ङीप्, मतुप्।ज्योतिष्मती बुद्धिर्यस्मिन् सः (स्वर्गः) सुखप्रापकः (पन्थाः) मार्गं (सुकृते)कर्मणे पुरुषाय (देवयानः) विद्वद्भिर्गमनयोग्यः ॥

    इस भाष्य को एडिट करें
    Top