Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 65
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    अभू॑द्दू॒तःप्रहि॑तो जा॒तवे॑दाः सा॒यं न्यह्न॑ उप॒वन्द्यो॒ नृभिः॑। प्रादाः॑ पि॒तृभ्यः॑स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ ॥

    स्वर सहित पद पाठ

    अभू॑त् । दू॒त: । प्रऽहि॑त: । जा॒तऽवे॑दा: । सा॒यम् । नि॒ऽअह्ने॑ । उ॒प॒ऽवन्द्य॑: । नृऽभि॑: । प्र । अ॒दा॒: । पि॒तृऽभ्य॑: । स्व॒धया॑ । ते । अ॒क्ष॒न् । अ॒ध्दि । त्वम् । दे॒व॒ । प्रऽय॑ता । ह॒वींषि॑ ॥४.६५॥


    स्वर रहित मन्त्र

    अभूद्दूतःप्रहितो जातवेदाः सायं न्यह्न उपवन्द्यो नृभिः। प्रादाः पितृभ्यःस्वधया ते अक्षन्नद्धि त्वं देव प्रयता हवींषि ॥

    स्वर रहित पद पाठ

    अभूत् । दूत: । प्रऽहित: । जातऽवेदा: । सायम् । निऽअह्ने । उपऽवन्द्य: । नृऽभि: । प्र । अदा: । पितृऽभ्य: । स्वधया । ते । अक्षन् । अध्दि । त्वम् । देव । प्रऽयता । हवींषि ॥४.६५॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 65

    टिप्पणीः - ६५−(अभूत्) (दूतः) दुतनिभ्यां दीर्घश्च। उ० ३।९०। दु गतौ-क्त। गमनशीलः। उद्योगी (प्रहितः) प्रकृष्टो हितकारी (जातवेदाः) उत्पन्नज्ञानः। बहुधनः (सायम्)सूर्यास्ते (न्यह्ने) निगते निश्चयेन प्राप्ते दिने। प्रातःकाले (उपवन्द्यः)महाप्रशंसनीयः (नृभिः) नेतृभिः (प्र) प्रकर्षेण (अदाः) दत्तवानसि (पितृभ्यः) (स्वधया) स्वधारणशक्त्या (ते) पितरः (अक्षन्) अघसन्। अभक्षयन् (अद्धि) भक्षय (त्वम्) (देव) हे विद्वन् (प्रयता) शुद्धानि। प्रयत्नेन साधितानि (हवींषि)ग्राह्याणि भोजनानि ॥

    इस भाष्य को एडिट करें
    Top