Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 4/ मन्त्र 11
    सूक्त - यम, मन्त्रोक्त देवता - जगती छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    शम॑ग्नेप॒श्चात्त॑प॒ शं पु॒रस्ता॒च्छमु॑त्त॒राच्छम॑ध॒रात्त॑पैनम्। एक॑स्त्रे॒धाविहि॑तो जातवेदः स॒म्यगे॑नं धेहि सु॒कृता॑मु लो॒के ॥

    स्वर सहित पद पाठ

    शम् । अ॒ग्ने॒ । प॒श्चात् । त॒प॒ । शम् । पु॒रस्ता॑त् । शम् । उ॒त्त॒रात् । शम् । अ॒ध॒रात् । त॒प॒ । ए॒न॒म् । एक॑: । त्रे॒धा । व‍िऽहि॑त: । जा॒त॒ऽवे॒द॒: । स॒म्यक् । ए॒न॒म् । धे॒हि॒ । सु॒ऽकृता॑म् । ऊं॒ इति॑ । लो॒के ॥४.११॥


    स्वर रहित मन्त्र

    शमग्नेपश्चात्तप शं पुरस्ताच्छमुत्तराच्छमधरात्तपैनम्। एकस्त्रेधाविहितो जातवेदः सम्यगेनं धेहि सुकृतामु लोके ॥

    स्वर रहित पद पाठ

    शम् । अग्ने । पश्चात् । तप । शम् । पुरस्तात् । शम् । उत्तरात् । शम् । अधरात् । तप । एनम् । एक: । त्रेधा । व‍िऽहित: । जातऽवेद: । सम्यक् । एनम् । धेहि । सुऽकृताम् । ऊं इति । लोके ॥४.११॥

    अथर्ववेद - काण्ड » 18; सूक्त » 4; मन्त्र » 11

    टिप्पणीः - ११−(शम्) शान्त्या। सुखेन (अग्ने) हे यज्ञाग्ने (पश्चात्)पृष्ठतः (तप) तप ऐश्वर्ये। तापय। प्रतापिनं कुरु (शम्) (पुरस्तात्) अग्रतः (शम्) (उत्तरात्) उपरिदेशात् (शम्) (अधरात्) अधोगतदेशात् (तप) (एनम्) पुरुषम् (एकः)एकसंख्याकः (त्रेधा) त्रिप्रकारेण। पूर्वाग्निगार्हपत्यदक्षिणाग्निरूपेण (विहितः) स्थापितः (जातवेदः) विद सत्तायाम्-असुन्। हे जातेषु उत्पन्नेषुविद्यमानाग्ने (सम्यक्) यथा तथा। समीचीनम् (एनम्) यजमानम् (धेहि) धारय (सुकृताम्) पुण्यकर्मणाम् (उ) एव (लोके) समाजे ॥

    इस भाष्य को एडिट करें
    Top