Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 10
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
वर्च॑सा॒ मांपि॒तरः॑ सो॒म्यासो॒ अञ्ज॑न्तु दे॒वा मधु॑ना घृ॒तेन॑। चक्षु॑षे मा प्रत॒रंता॒रय॑न्तो ज॒रसे॑ मा ज॒रद॑ष्टिं वर्धन्तु ॥
स्वर सहित पद पाठवर्च॑सा । माम् । पि॒तर॑: । सो॒म्यास॑: । अञ्ज॑न्तु । दे॒वा: । मधु॑ना । घृ॒तेन॑ । चक्षु॑षे । मा॒ । प्र॒ऽत॒रम् । ता॒रय॑न्त: । ज॒रसे॑ । मा॒ । ज॒रत्ऽअ॑ष्टिम् । व॒र्ध॒न्तु॒ ॥३.१०॥
स्वर रहित मन्त्र
वर्चसा मांपितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन। चक्षुषे मा प्रतरंतारयन्तो जरसे मा जरदष्टिं वर्धन्तु ॥
स्वर रहित पद पाठवर्चसा । माम् । पितर: । सोम्यास: । अञ्जन्तु । देवा: । मधुना । घृतेन । चक्षुषे । मा । प्रऽतरम् । तारयन्त: । जरसे । मा । जरत्ऽअष्टिम् । वर्धन्तु ॥३.१०॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(वर्चसा) तेजसा (माम्) (पितरः)रक्षका महात्मानः (सोम्यासः) ऐश्वर्यवन्तः (अञ्जन्तु)अञ्जूव्यक्तिम्रक्षणकान्तिगतिषु। व्यक्तीकुर्वन्तु। विख्यातं कुर्वन्तु (देवाः)विद्वांसः (मधुना) विज्ञानेन (घृतेन) प्रकाशेन (चक्षुषे) सूक्ष्मदर्शनाय (प्रतरम्) प्रकृष्टतरम्। अधिकतरम् (तारयन्तः) पारयन्तः (जरसे) जॄ स्तुतौ-असुन्।जरतिरर्चतिकर्मा-निघ० ३।१४। स्तुतये (मा) माम् (जरदष्टिम्) अ० २।२८।५। जॄस्तुतौ-अतृन्+अशू व्याप्तौ-क्तिन्। जरता स्तुत्या सह अष्टिः कार्यव्याप्तिर्यस्यतम् (वर्धन्तु) वर्धयन्तु उन्नयन्तु ॥
इस भाष्य को एडिट करें