Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 42
    सूक्त - यम, मन्त्रोक्त देवता - त्रिष्टुप् छन्दः - अथर्वा सूक्तम् - पितृमेध सूक्त

    त्वम॑ग्न ईडि॒तोजा॑तवे॒दोऽवा॑ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वा। प्रादाः॑ पि॒तृभ्यः॑ स्व॒धया॒ तेअ॑क्षन्न॒द्धि त्वं दे॑व॒ प्रय॑ता ह॒वींषि॑ ॥

    स्वर सहित पद पाठ

    त्वम् । अ॒ग्ने॒ । ई॒डि॒त: । जा॒त॒ऽवे॒द॒: । अवा॑ट् । ह॒व्यानि॑ । सु॒र॒भीणि॑ । कृ॒त्वा। प्र । अ॒दा॒: । पि॒तृऽभ्य॑:। स्व॒धया॑ । ते । अ॒क्ष॒न् । अ॒द्धि । त्वम् । दे॒व॒ । प्रऽय॑ता । ह॒वींषि॑ ॥३.४२॥


    स्वर रहित मन्त्र

    त्वमग्न ईडितोजातवेदोऽवाड्ढव्यानि सुरभीणि कृत्वा। प्रादाः पितृभ्यः स्वधया तेअक्षन्नद्धि त्वं देव प्रयता हवींषि ॥

    स्वर रहित पद पाठ

    त्वम् । अग्ने । ईडित: । जातऽवेद: । अवाट् । हव्यानि । सुरभीणि । कृत्वा। प्र । अदा: । पितृऽभ्य:। स्वधया । ते । अक्षन् । अद्धि । त्वम् । देव । प्रऽयता । हवींषि ॥३.४२॥

    अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 42

    टिप्पणीः - ४२−(त्वम्) (अग्ने) हे विद्वन् (ईडितः) प्रशंसितः (जातवेदः)जातानि प्रसिद्धानि वेदांसि धनानि यस्य तत्सम्बुद्धौ (अवाट्) वहतेर्लुङ्, इडागमाभावे सिचो लोपे रूपसिद्धिः। अवाक्षीः। प्रापितवानसि (हव्यानि)ग्राह्यवस्तूनि (सुरभीणि) म० १७। ऐश्वर्ययुक्तानि (कृत्वा) विधाय (प्र)प्रकर्षेण (अदाः) ददातेर्लङ्। दत्तवानसि (पितृभ्यः) (स्वधया) स्वधारणशक्त्या (ते) पितरः (अक्षन्) घस्लृ अदने-लुङ्। भक्षितवन्तः (अद्धि) अद भक्षणे-लोट्।भक्षय (त्वम्) (देव) हे विद्वन् (प्रयता) यमु उपरमे-क्त, यद्वा यतीप्रयत्ने-अप्। शुद्धानि। प्रयत्नसाधितानि (हवींषि) ग्राह्यभोजनानि ॥

    इस भाष्य को एडिट करें
    Top